________________
कातन्त्रव्याकरणम् मुख्ये विधीयते, तत्र यदाभिमुख्ये विधानं तदामन्त्रितमित्यर्थः, तच्च आमन्त्रितं सिद्धस्यैव भवति, नाप्रसिद्धस्येति । तस्यार्थक्रियाया अक्षमत्वाद् आमन्त्र्यो हि पदार्थः क्रियायां विनियुज्यते। यथोक्तम् -
सिद्धस्याभिमुखीभावमात्रं संबोधनं विदुः। प्राप्ताभिमुख्यो अर्थात्मा क्रियायां विनियुज्यते।।
(वा० प० ३।७।१६३) इति । हे अम्ब ! हे वृक्ष ! इति “आमन्त्रणे च" (२।४।१८) इति सिः, तस्यानेन संबुद्धिसंज्ञायां सत्यां "हस्वनदी०"(२।१।७१) इत्यादिना सेर्लोपः । “हस्वोऽम्बार्थानाम्" (२।१।४०) इति श्रद्धाया ह्रस्वश्च भवति ।। ८४ |
[क० च०]
आमन्त्रिते ० । सिद्धस्येत्यादि वृत्तिः। ननु सिद्धशब्दस्य कोऽर्थः ? न तावन्नित्यार्थः, तदा आकाशादेरेव स्यात् । न तावन्निष्पन्नार्थः, तदा अन्नादेरेव स्यात् ।नापि प्रसिद्धार्थः, तदा काम्पिल्लादेरेव स्यात् । तस्मात् किं स्यादिति चेदुच्यते - सिद्धशब्दोऽत्र प्रसिद्धार्थो गृह्यते, ततश्च लिङ्गसंज्ञायां यः शब्दः प्रसिद्ध इत्यर्थः । लिङ्गसंज्ञायां यो निष्पन्नो वा ततश्चोपचारात् तद्वाच्यवस्तु सिद्धशब्देनाभिधीयते इति केचित् ।
वस्तुतस्तु सिद्धशब्दो विद्यमानवचनः, एतेनाविद्यमानस्य न संबोधनम् । अथ तर्हि सिद्धशब्देन किंप्रयोजनम्, व्यावृत्तेरभावात् । साध्यव्यावृत्त्यैव सार्थकत्वादिति चेत्, न | तथाहि ‘संबोधनं न लोकेऽस्ति विधातव्ये च वस्तुनि' (वा०प०३।१०।५) इति । यथा राजा भवति । अत्र राजत्वमेव साध्यम्, तर्हि स्वरूपकथनार्थमिति । अभिमुखीकरणं संमुखीकरणमिति कश्चित् । तन्न, लोके व्यवहितस्यापि आभिमुख्यदर्शनात् । तस्मादभिमुखीकरणं कार्योन्मुखीकरणमित्यर्थः । तथा च कुमारे 'शून्या जगाम भवनाभिमुखी कथंचित्' (कु० सं० ३।७५) इत्यादि ।। ८४।
[समीक्षा]
पाणिनि ने अष्टाध्यायी में संबोधन में विहित प्रथमा विभक्ति की आमन्त्रितसंज्ञा स्वीकार को है – “संबोधने च, साऽऽमन्त्रितम्"(२।३।४७,४८) और उसमें एकवचन सुप्रत्यय की ‘संबुद्धि' संज्ञा - "एकवचनं सम्बुद्धिः" (२।३।४९) इस प्रकार पाणिनि