SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ कातन्वव्याकरणम् कुणलोघृष्टगण्डानां कुमाराणां तपस्विनाम् । निचकर्त शिरान् प्रौणिनालेभ्य इव पडलान् ।। ऋषिवचनत्वात् शसो लोपो दृश्यते, नकारस्यापि स्थितिरिति ।। ८३ । [वि० प०] जस्० । जसः पूर्वेणैव सिद्धे तदुपादानं नियमार्थमित्याह – नपुंसके जसेवेति । नपुंसक एव जसिति प्रत्ययनियमस्तु न भवति, "घोषवन्तोऽन्ये" (१।१।१२) इति निर्देशात् । अन्यथा लिङ्गान्तत्वे जसो घुट्वाभावाद् इह पुंलिङ्गेऽनुषङ्गलोपः स्यात् । ततो नपुंसके जसेव घुडिति नियमेनान्यस्य वचनस्य घुट्त्वं पूर्वेण प्राप्तमपि निवर्त्यते । तेन 'वारिणी, जतुनी' इति "पुटि चासम्बुद्धौ" (२।२।१७) इति दी? न भवति इति । "औरीम्, नामिनः स्वरे" (२।२।९,१२) इति नुरागमः ।। ८३ । [क००] जस्शसौ० । ननु ‘वारिणी' इति कथं प्रत्युदाहृतम् । “इन्हन्पूषार्यम्णां शौच" (२।२।२१) इत्यत्रं सौ शावेवेति नियमादौकारे दीर्घाभावस्य सिद्धत्वात् । ननु लाक्षणिकत्वान्नियमस्याविषय इति चेत्, सौ शावेवेति नियमाद् दण्डिनावित्यत्र यदुक्तं तत्रापि लाक्षणिकतासत्त्वाद् दीर्घः स्यात्, सत्यम् । तत्र समुदायस्य लाक्षणिकतया अत्रावयवस्य लाक्षणिकत्वाद् इनि शीघ्रं बुद्धिर्नोत्पद्यते, अतोऽत्र लाक्षणिकत्वं स्फुटमेवेति। अथवा हनादयस्तावदनागमसमुदायास्तत्साहचर्यादिन्नपि अनागमसमुदाय एव गृह्यते, अतो नियमोऽपि तत्रैव । 'अर्थवद्ग्रहणे नानर्थकस्य' (कात० प० ४) इति वक्तुं न युज्यते, 'अनिनस्मन्ग्रहणान्यर्थवताऽनकिन च तदन्तता' (व्या० परि० १२९) इति न्यायात् । अन्यथा “पयस्वी' इति न सिध्यतीति । ननु "घोषवन्तः" (१।१।१२) इति ज्ञापकाश्रयणं किमर्थम्, प्रत्ययनियमे हि पूर्वसूत्रे पञ्चग्रहणमेव व्यर्थं स्यात्, स्यावमो घुड् इत्येव वक्तुं योग्यत्वात् । सत्यम्, सत्यप्यस्मिन् परिहारे ज्ञापकेन सुखपरिहारः कृतः । ननु जस् प्रथमावयवः, सादृश्यादन्यस्यापि प्रथमावयवस्यैव नियमेन घुट्त्वनिरासो युक्तः, न तु द्वितीयाद्विवचनैकवचनयोरिति ? सत्यम् । यदि द्वितीयाद्विवचनैकवचनयोर्घट्त्वाभावं नाभिधेयात्, तदा
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy