________________
૩૪
कातन्त्रव्याकरणम्
सानुबन्धकस्येत्यन्ये। जस्-शसोर्जकारशकारौ “जस्-शसौ नपुंसके' (२/१/४) इत्यादिविशेषणार्थौ । ननु शसादीनां शकारादयः कर्तव्या एव "जस् सर्व इ: " (२/१/३०) इति प्रतिपदोक्तस्य ग्रहणं भविष्यति । सर्वमस्यतीति सर्वाः, क्विपि स्यादीनां प्रकृतत्वाच्च तर्हि असन्दिग्धार्थ एव । टा-वचनस्य टकारो " न सखिष्टादावग्निः” (२/२/१) इति विशेषणार्थः । अन्यथा आकारादाविति प्रतिपद्येत । सखीनित्यत्राग्निकार्यं न स्यात् | ङवतां ङकारो ङवन्ति यै यास् यास् यामिति विशेषणार्थः । सुपः पकारः सावित्युक्ते सन्देहे यदि सोर्ग्रहणमभिप्रेयात् तदा सुपीति प्रदध्यादिति परिहारार्थः । "गोः कटाबन्ती शषससुप्सु ” (का०परि० सं०५४) इति प्रकारमन्तरेणापि सप्तमीबहुवचन एव पदान्ते हि सकारे कटौ सिद्धौ ॥। ८१ ।
[वि० प० ]
1
तस्मात्० । अथानन्तरत्वात् लिङ्गमनुवर्तते किं तस्माद्ग्रहणेन ? सत्यम्, अधिकारार्थः । अन्यथा अचिनवम् असुनवम् इत्यादौ श्वस्तन्यमोऽग्नेरमोऽकार इत्यादिना लोपः स्यात् । तदयुक्तम्, परत्वान्नित्यत्वाच्चात्र गुणेन भवितव्यम् । किञ्च लिङ्गप्रकरणत्वात् स्यादेरेव अमोऽकारलोपो भविष्यतीति, सत्यम् । तस्माद्-ग्रहणं सुखार्थमेव । तर्हि परग्रहणं किमर्थम्, प्रत्ययत्वादेव स्यादीनां प्रत्ययः पर इति परत्वं सिद्धम् । सत्यम्, लिङ्गात् परस्यादीनामवश्यम्भावप्रतिपत्त्यर्थम् | अन्यथा तस्यापत्यम् इति विभक्तिनिर्देशस्याभावाद् “बाणपत्ये” (२/६/१) इत्यादिना नित्यत्वाल्लिङ्गमात्रादेवाणादयः स्युरिति ।
उत्पन्नाया
अत एव वक्ष्यति षष्ठ्यन्तान्नाम इति, तथाप्यनर्थकं परा-ग्रहणम्, हि विभक्तेर्लोपेन भवितव्यमिति चेद् यत्र लोपो न दृश्यते तदर्थं परा-ग्रहणम् । यथा अमुष्यापत्यम् आमुष्यायण इति । ननु कथं स्यादयो विभक्तय इति, न ह्यत्र विभक्तिसंज्ञां प्रति सूत्रमस्तीत्याह- अर्थस्य इत्यादि । एतेनान्वर्थबलादेव विभक्तिसंज्ञा सिद्धेति दर्शितम् । तथाहि संख्याकर्मादयोऽर्था आभिर्विभज्यन्त इति विभक्तय उच्यन्ते ॥ ८१ ॥
[क० च० ]
तस्मात्० । परा इति पुंस्यपि "अल्पादेर्वा” (२/१/३१) इति विकल्पनात् पक्षे "जस् सर्व इ: " ( २/१/३०) इति इन् भवति । कश्चित्तु स्त्रियामित्याचष्ट, तन्न ।