SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाप्याये प्रथमो धातुपादः विभक्तयो भवन्ति । दृषत् दृषद्, दृषदौ, दृषदः, दृषदम्, दृषदौ, दृषदः, दृषदा, दृषद्भ्याम्, दृषद्भिरित्यादि । एवं कुमारी,कुमार्यो,कुमार्य्यः ।खट्वा,खट्वे, खट्वाः । अर्थस्य विभजनाद् विभक्तय इति ।।८१ । [दु० टी०] तस्मात् । विधिरयम् । स्यादयोऽनेन विधीयन्ते इति, तर्हि तस्माद्ग्रहणं परग्रहणं च किमर्थम् ? "प्रत्ययः परः" (३/२/१) इति वचनाद् अर्थायातं पूर्वं लिङ्गं तत एव भवति यतो धातोरसत्त्वार्थत्वादेकत्वादिसम्बन्धाभावात् त्यादिभिश्च बाधितत्वात्, त्याद्यन्ताच्च क्रियावत् साधनैकत्वादिषु न भवति त्यादिभिरेवैकत्वाद्यभिधानात् । तर्हि भिन्नवाक्यतायामनर्थकभ्योऽपि स्युः । एकत्वादिनियमस्तु पश्चाद् यथासम्भवमिति नैवं लिङ्गमनन्तरं तर्हि सुखप्रतिपत्त्यर्थम् अधिकारार्थ च स्याद्यनभिसम्बन्धे तेनाभिलिङ्गत्वाद् अचिनवम्, असुनवम् इत्यत्राग्नेरमोऽकारलोपो न भवति । ननु परत्वान्नित्यत्वाच्च गुण एव, तर्हि विरामव्यञ्जनादौ सामान्ये प्रत्ययविधानात् 'सस्तम्, ध्वस्तम्' इति दत्वं स्यात्, नैवम् । लिङ्गप्रकरणत्वात् लिङ्गमेव नियमयति, तथा चाख्याते "चवर्गस्य किरसवर्णे, होटः" (३/६/५५,५६) इति वचनम् । तर्हि इतरफलेन फलवदिति परग्रहणं च लिङ्गात् परतो विभक्तीनामवश्यम्भाव इति प्रतिपत्त्यर्थम् । अन्यथा नित्यत्वादणादयो लिङ्गमात्रादेव भवितुमर्हन्ति विभक्तिनिर्देशस्यासम्भवादपत्यादिसंबन्धापेक्षया बहिरङ्गत्वं पुनरुभयस्थितमेव । को दोषश्चेत्, उत्पन्नायाश्च विभक्तेलोपेन भवितव्यम् । यत्र लोपो न दृश्यते तदर्थं पूर्वाह्ने प्रकर्षः पूर्वाह्नेतराम्, पूर्वाह्नेतमाम् । पूर्वाह्ने जातो भवो वा पूर्वाह्नेतनः, अपराह्नेतनः । अप्सु भवम् अप्सव्यम्, अमुष्यापत्यम् आमुष्यायणः इति स्त्रियामादादयस्तु वचनसामान्याल्लिङ्गमात्राद् भवन्ति । ततः स्वार्थिकप्रत्ययाश्च यावकः । एवं बहूनि चर्माणि यस्यां सा बहुचर्मिका शालेति । अर्थस्य विभजनादिति । लिङ्गार्थकर्मादयोऽर्था आभिर्विभज्यन्ते इत्येतान्येव सप्तत्रिकाणि सप्त विभक्तयः प्रथमादिशब्दवाच्याः । यथा त्यादयो विभक्तय इति यदाह विभक्तिग्रहणं तत्स्वरूपविशेषणं मन्दपियां सुखप्रतिपत्त्यर्थं न पुनरधिकारार्थमवश्यम्भावि स्यादि-संबन्धेनेव 'भारः, हारः' इत्यादिषु दीर्घादिविषयो न भविष्यतीति । सेरिकार उच्चारणार्थो न विशेषणार्थः "ईकारान्तात् सिः"(२/१/४८) इत्यादिषु अर्थवद्ग्रहणे नानर्थकस्येति सुपः सकारस्य ग्रहणं न भविष्यति । निरनुबन्धग्रहणेन
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy