________________
परिशिष्टम् - १
५०. सदिस्वन्जोः परोक्षायामभ्यासात्
परोक्षायामनयोरभ्यासात् परः षो न भवति । विषसाद । अभिषस्वन्जे (परिषस्वजे)। अभ्यासादित्यभ्यासे प्रतिषेधो मा भूत् ॥ ५०| ५१. इनि स्विदिस्वदिसहां सनि
५२३
इनि सत्येषां सनि परतोऽभ्यासात् षो न भवति । सिस्वेदयिषति, सिस्वादयिषति । सिसाहयिषति । इनीति किम् ? सिष्वित्सति । अभ्यासादिति किम् ? विषिसाहयिषति ।। ५१ ।
॥ इति महामहोपाध्याय श्री श्रीपतिदत्तविरचितकातन्त्रपरिशिष्टे षत्वप्रकरणं समाप्तम् ॥