________________
णत्वप्रकरणम्
१. णो नः निमित्तादिति वर्तते । निमित्तं त्विह स्वरादिव्यवहिताश्च रवर्णाः, निमित्तान्नस्य णो भवतीत्यधिकर्तव्यम् ।। १ ।
___२. पूर्वपदस्थात् संज्ञायाम् पूर्वपदस्थान्निमित्तात् संज्ञायामुत्तरपदस्थस्य नस्य णो भवति । शूर्पणखा, द्रुणसः, खरणसः । संज्ञेति शब्दरूढिरिह गृह्यते । तेन अग्रणीः, ग्रामणीः, अक्षौहिणी सेनेति । वृत्तावप्येकपदत्वमस्तीति नियमोऽयम् । स तु पूर्वपदस्थादुत्तरपदस्थस्यासंज्ञायां णत्वं निवर्तयति । ताम्रनखः, शुष्कनखः । प्रत्ययस्य पूर्वस्थादपि णत्वं स्यात् । दगुणः, लक्षणः । मन्त्वर्थे नप्रत्ययः ।।२।
३. वनस्याग्रेकोटरादेः अग्रे - कोटरादेः परस्य वनस्य संज्ञायां णो भवति । अग्रेवणम् । सप्तम्या: समासोऽयं निपातनादलोपः । कोटरावणम्, सिध्रकावणम्, मिश्रकावणम्, शारिकावणम् । पुरगशब्दो ह्रस्वादिस्वर इति मतम् – पुरगावणम् । दीर्घत्वं वक्ष्यते । नियमः किम् ? कुबेरवनम्, शतपत्रवनम् ।।३।
४. प्रनिरन्तरिक्षुप्लक्षशराम्रकार्घ्यपीयूक्षाखदिरेभ्यः एभ्यो वनस्य णो भवति । प्रकृष्टं वनम् प्रवणम्, वनान्निर्गतं निर्वणम्, वनस्यान्तः अन्तर्वणम् । इक्षुवणम्, प्लक्षवणम्, शरवणम्, आम्रवणम्, कायॆवणम्, पीयूक्षावणम्, खदिरवणम् ।।४।
५. द्वित्रिस्वरेभ्यो वौषधिवृक्षेभ्योऽनिरिकादेः द्विस्वरेभ्यस्त्रिस्वरेभ्यश्च ओषधिवृक्षेभ्यः अनिरिकादेः परस्य वनस्य णो भवति वा ।फलपाकान्तान्युदभिदान्योषधयः ।व्रीहिवणम्, व्रीहिवनम् । नीवारवणम्, नीवारवनम् ।