SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ४३. सिचश्चेक्रीयिते सिचश्चेक्रीयिते परे सस्य षो न भवति । सेसिच्यते । उपसर्गाश्रयोऽपि बाध्यते । अभिसेसिच्यते ।। ४३ । ५२२ ४४. निप्रतिभ्यां स्तब्धस्य आभ्यां स्तब्धस्य सः षो न भवति । प्रतेरपीति प्राप्तेः निस्तब्धः, प्रतिस्तब्धः । निष्टब्धश्छात्र इति निस्पूर्वस्य || ४४ | ४५. उपसर्गात् स्तन्भुसिवुसहां चणि उपसर्गस्थादेषां चणि षो न भवति । व्यतस्तम्भत, पर्यसीषिवत् पर्यसीषहत् । उपसर्गाश्रयोऽनेन बाध्यते । धात्ववयवात्तु निमित्तादुपसर्गादपि स्यादेव || ४५ । ४६. स्यतिसुवोरभ्यासे अनयोरभ्यासे षो न भवति । अभिससौ, अभिसुसूषति, स्तौतीनन्तयोरेव षणीति नियमाद् धातोरपि न स्यात् । अभिसिषासति, अभिसेषीयते । अभिसुषाव अभिसोषूयते । एषु धातोः स्यादेव || ४६। , ४७. स्ये च सुञः 1 सुञोऽभ्यासे स्ये च परतः षो न भवति । अभिसुषाव अभिसोषूयते, अभिसुसूषति ।षणि नियमात् पूर्ववत् । स्ये च अभिसोष्यते, अभ्यसोष्यत । अभिसुसूषतीति क्विब् दृश्यते चेत् - अभिसुसूरिति धूसरादित्वात् ।। ४७ । ४८. सोढश्च सोढित्यस्य च षो न भवति । विसोढः, परिसोढः । विसोढुम्, परिसोढुम् । परिसोढा, विसोढा | विसोढव्यम्, परिसोढव्यम् | ढकारनिर्देशः किम् ? विषहते, परिषहते | सितसयसिवुसहसुटामिति षत्वम् ||४८ | ४९. सेधतेर्गतौ गतावर्थे सेधतेः षो न भवति । अभिसेधति गौः ।। ४९ ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy