SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५२१ टषश्च पर अभिषन्ति, अ - अभ्यसान परिशिष्टम् -१ ३७. उपसर्गप्रादुर्ध्यामस्तेर्यस्वरेषु उपसर्गस्थान्निमित्तात् प्रादुषश्च परस्यास्तेर्यस्वरेषु सः षो भवति । बहुवचनमयथासंख्यार्थम् । प्रतिष्यात्, अनुष्यात् । अभिषन्ति, अनुषन्ति । प्रादुःष्यात्, प्रादुःषन्ति । यस्वरेष्विति किम् ? अभिस्तः, प्रादुस्तः । अनन्तर इत्येव - अभ्यसानि, प्रादुरासीत् ।।३७। ____३८. सुविनिदुर्थ्यः सुपः सुपः इति स्वपेः कृतसम्प्रसारणस्य निर्देशः । एभ्यः सुपः सः षो भवति । सुषुप्यते, सुषुप्तः, सुषुप्तिः । एवं विषुप्यते, निःषुप्यते, दुःषुप्यते । सम्प्रसारणनिर्देशः किम् ? सुस्वपिति, सुस्वप्नः ।।३८) ३९. समसूत्योश्च सुविनिदुर्यः समसूत्योश्च सः षो भवति | सुषमम्, विषमम्, निःषमम्, दुःषमम्, सुषूतिः, विषूतिः, निःषूतिः, दुःषूतिः ।। ३९।। ___४०. निसस्तप्यनभ्यावृत्तौ अनभ्यावृत्तावपौनःपुन्येऽर्थे तपतौ परतो निसः षो भवति । निष्टपति सुवर्णम् परीक्षकः, सकृद् धमतीत्यर्थः । अनभ्यावृत्ताविति किम् ? निस्तपति सुवर्णं घटकः । पुनः पुनर्धमतीत्यर्थः ।।४०। ४१. न सात् कृसरधूसरादिषु सात्प्रत्यये कृसरधूसरादिषु च सस्य षो न भवति । वारिसात्, बिन्दुसात् । कृधूराभ्यः सरक् । कृसरः, कृसरा । धूसरः, धूसरा | 'महिषधूसरितः सरितस्तटः' इति । सुस्थः, सुस्थितिः । दुःस्थः, दुःस्थितिः । परिस्थः, परिस्थितिः ।। ४१ । ४२. बहुच् प्रकृत्युत्तरपदादेः बहुचप्रकृतेरुत्तरपदस्य चादेः सस्य षो न भवति । बहुसेतुः, कपिसेतुः, गिरिसेतुः । दधिसेतुः । बहुचप्रकृत्युत्तरपदयोः पदत्वं नास्तीत्युभयोरुपादानम् ।।४२ ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy