________________
५२०
कातन्त्रव्याकरणम्
किम् ? परिषिसेविषति (पर्यसेव्यत), विषासह्यते, परिषस्कार | परिनिविभ्य इत्येव - अभिसीव्यति, प्रतिस्किरति शत्रून् । प्रतेश्च हिंसार्थ इति सुट् ।।३०।
____३१. सिवुसहसुट्स्तुस्वन्जां विभाषाटः परिनिविभ्यः सिवादीनामटः परस्य सस्य षो भवति वा ।पर्यषीव्यत्, पर्यसीव्यत् । पर्यषहत, पर्यसहत । पर्यष्करोत्, पर्यस्करोत् । पर्यष्टौत्, पर्यस्तौत् । पर्यष्वजत, पर्यस्वजत । स्तुस्वन्जोः प्राप्ते विभाषा ।।३१।
३२. व्यनुपर्यभिनिभ्यः स्यन्दतेरप्राणिनि अप्राणिन्येभ्यः स्यन्दतेरनन्तरः सः षो भवति वा । विष्यन्दते, विस्यन्दते तैलम् । अनुष्यन्दते, अनुस्यन्दते । परिष्यन्दते, परिस्यन्दते । अभिष्यन्दते, अभिस्यन्दते । निष्यन्दते, निस्यन्दते । अप्राणिनीति किम् ? विस्यन्दते मत्स्याः ।। ३२।
३३. परेः स्कन्देः परेः परस्य स्कन्दतेरनन्तरः सः षो भवति वा । परिष्कन्दते, परिस्कन्दते ।।३३।
३४. वेरनिष्ठायाम् वेः परस्य स्कन्दतेरनन्तरःसःषो भवति वा अनिष्ठायाम् । विष्कन्दते, विस्कन्दते । अनिष्ठायामिति किम् ? विस्कन्नः, विस्कन्नवान् ।।३४।
३५. स्फुरिस्फुल्योर्निर्निविभ्यः एभ्यः स्फुरिस्फुल्योरनन्तरः सः षो भवति वा । निःष्फुरति, निःस्फुरति । निष्फुरति, निस्फुरति । विष्फुरति, विस्फुरति, निःष्फुलति, निःस्फुलति । निष्फुलति, निस्फुलति । विष्फुलति, विस्फुलति । एवं निःष्फुरितः, निःस्फुरितः । निःफुलितः, निःस्फुलितः इत्यादि ।।३५।
३६. नित्यं वेः स्कन्भेः विपूर्वस्य स्कन्भेनित्यं षो भवति । ‘ष्टभि, स्कभि प्रतिबन्धे' (१/३९२), सौत्रो वा । विष्कम्भते, विष्कम्भिता, विष्कम्भः, विष्कभ्नाति, विष्कभ्नोति ।।३६।