SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ५१९ परिशिष्टम् -१ २५. सदेरप्रतेः अप्रतेरुपसर्गस्थान्निमित्तात् सदेरडभ्यासान्तरोऽनन्तरश्च सः षो भवति । निषीदति, न्यषीदत्, निषाषद्यते । निषिषत्सति । परिषीदन्त्यस्यामिति परिषत् । अप्रतेरिति किम् ? प्रतिसीदति ।।२५। २६. प्रतेरपि स्तन्भेः निमित्तमात्रादुपसर्गस्थात् प्रतेरप्यडभ्यासान्तरश्च स्तन्भेःसःषो भवति ।प्रतिष्टभ्नाति, प्रत्यष्टभ्नात्, प्रतिताष्टभ्यते । विष्टभ्नाति, व्यष्टभ्नात्, विताष्टभ्यते । अभिष्टम्नाति, अभ्यष्टभ्नात्, अभिताष्टभ्यते । उपष्टब्धम्, उपष्टम्भम् इत्यार्षं चेत्, सुषामादौ द्रष्टव्यम् ।।२६। २७. अवादौर्जित्यनिकटाश्रयेषु अवात् परस्य स्तन्भेरेष्वर्थेष्वडभ्यासान्तरश्च सः षो भवति । मल्लो मल्लमवष्टभ्नाति, तर्जयतीत्यर्थः । अवष्टभ्यतेऽनेनेति अवष्टम्भः स्वर्णम् | "रघोरवष्टम्भमयेन पत्रिणा"। सेनामवष्टभ्नाति आसीदतीत्यर्थः । दण्डमवष्टभ्नाति, अवलम्बते इत्यर्थः । एष्विति किम् ? अवस्तब्धो बाहीकः । शीतेन जडीकृत इत्यर्थः ।।२७। २८. वेश्च स्वनो भोजने वेरवाच्च भोजनेऽर्थे स्वनोऽडभ्यासान्तरश्च सः षो भवति । विष्वणति, अवष्वणति । व्यष्वणत्, विषष्वणत्, विषष्वाण, अवषष्वाण । सशब्दभोजने स्वनिरिह वर्तते । भोजन इति किम् ? विस्वनति (अवस्वनति) विरौतीत्यर्थः ।।२८। २९. परिनिविभ्यः सेवते एभ्यः सेवतेरडभ्यासान्तरश्च सः षो भवति । परिषेवते, निषेवते, विषेवते, परिषिषेवते पर्यषवत, न्यषेवत,परिषिषेव इत्यादि ।एभ्य इति किम् ? अभिसेवते ।।२९। ३०. सितसयसिवुसहसुटामनन्तरः परिनिविभ्यः सितादीनामनन्तरः सः षो भवति । षिञः क्तः- परिषितम्, निषितम्, विषितम्, षिञोऽल् घश्च-परिषयः, निषयः, विषयः ।परिषीव्यति, निषीव्यति, विषीव्यति, परिषहते, निषहते, विषहते । परिष्करोति । विष्किरः पक्षी । अनन्तर इति
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy