________________
५१८
कातन्वव्याकरणम् पुषदिविषदौ देवे मृषा गोषाश्च नामनि। आयुष्ठाम्बष्ठशेकुष्ठपरमष्ठाः सुषन्धि च॥
सव्येष्ठा परमेष्ठी च ये चान्ये मुनिभिः स्मृताः॥२०॥ २१. प्रतिष्णातकपिष्ठलौ सूत्रगोत्रयोः
एतौ सूत्रगोत्रयोर्यथासंख्यं समूर्धन्यौ भवतः । प्रतिष्णातं सूत्रम् पाणिनेः, सुविशुद्धमित्यर्थः । कपिरिव स्थलतीति कपिष्ठलो गोत्रम् । सूत्रगोत्रयोरिति किम् ? प्रतिस्नातं शिरः । कपिस्थलं गिरिः ।।२१।
२२. ह्रस्वात् तादौ तद्धिते नाम्नः
ह्रस्वात् परस्य सस्य नाम्नो विहिते तादौ तद्धिते षो भवति । सर्पिष्टा, धनुष्टा । सर्पिष्ट्वम् , धनुष्ट्वम् । वपुष्ट्वम्, वपुष्टमम् । चतुष्टयम्, चतुष्ट्वम् । ह्रस्वादिति किम् ? गीस्त्वम्, उच्चस्तराम् । तादाविति किम् ? सर्पिस्सात् । नाम्न इति किम् ? कुर्युस्तराम्, ददुस्तराम् । तद्धित इति किम् ? सर्पिस्तरति ।।२२।
२३. उपसर्गात् सुनोति-सुवति-स्यति-स्तौति-स्तोभतीनामनन्तरोऽपि
उपसर्गस्थान्निमित्ताद् एषामटा व्यवहितोऽव्यवहितोऽपि सः षो भवति । अभिषुणोति, अभ्यषुणोत्, अभिषुवति, अभ्यषुवत् ।अभिष्यति,अभ्यष्यत् । अभिष्टौति, अभ्यष्टौत् । अभिष्टोभते, अभ्यष्टोभत । एवम् अनुषुणोति अन्वषुणोत् । य्वाभ्यामपि निमित्तवद्भावात् । तथा विसर्गान्तराये नामिनो निमित्तत्वमस्त्येव । निःषुणोति, दुःषुणोति । राच्च – निरष्टोभत, दुरष्टोभत ।।२३।
२४. स्थासेनिसेधतिसिचसन्जस्वन्जामडभ्यासान्तरश्च
उपसर्गस्थान्निमित्ताद् एषामडभ्यासान्तराऽनन्तरश्च सस्य' षो भवति । प्रतिष्ठाता, प्रत्यष्ठात्, प्रतितष्ठौ । अभिषेणयति, अभ्यषेणयत्, अभिषिषणयिषति । "अभिषिषणयिषु भुवनानि यः" निषेधति, न्यषेधत्, निषेषिध्यते । अभिषिञ्चति, अभ्यषिञ्चत्, अभिषिषिक्षति । अनुषजति, अन्वषजत्, अनुषिषङ्क्षति । परिष्वजते, पर्यष्वजत्, परिषिषङ्क्षते ।।२४ |