________________
षत्वप्रकरणम् १. सस्य षो निमित्तात्
निमित्तं नामिकराः । निमित्तात् परस्य सकारस्य षकारो भवतीत्यधिकर्तव्यम् । अविशेषे निमित्तादिति, विशेषे त्वनिमित्तादपि । तुराषाट् परमष्ठः ॥ १ ॥
२. तद्वत् खङन्तस्थाभ्यः
खङन्तस्थाभ्यः परस्य सस्य निमित्तादिव षकारो भवति । दृख्षु, क्रुषु, अश्वयूषु, हल्षु, मूलवृषु ||२|
३. समासेऽङ्गुलेः सङ्गस्य
अङ्गुलेः परस्प समासे सङ्गस्य सस्य षो भवति । अङ्गुलिषङ्गः, अङ्गुलीषङ्गः । समास इति किम् ? अङ्गुली सगं भजते । पदाद्यन्तयोः सस्य षो नास्तीत्यारम्भः ।। ३ ।
४. भीरोः स्थानस्य
भीरोः : परस्य स्थानस्य समासे सस्य षो भवति । भीरुष्ठानम् | समास इत्येव - भीरु स्थानं पश्य ॥ ४ ॥
५. अग्नेः स्तुतः
अग्नेः
: परस्य स्तुः क्विबन्तस्य सस्य षो भवति । अग्निष्टुत् || ५ |
:
६. दीर्घात् सोमस्य
दीर्घान्तादग्नेः परस्य सोमस्य सस्य षो भवति । अग्नीषोमौ । " ईदग्नेः सोमवरुणयोर्देवताद्वन्द्वे” । तस्यैव दीर्घस्येह ग्रहणम् । इह न स्यात् - अग्निश्च इश्च सोमश्च अग्नीसोमाः। दीर्घादिति किम् ? अग्निसोमौ ज्योतिरुद्भिदे || ६ |
७. ज्योतिरायुर्थ्यां स्तोमस्य
आभ्यामग्नेश्च स्तोमस्य सस्य षो भवति । ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः । समास इत्येव - ज्योतिस्तोमे तृणानाम् ॥७॥