________________
५१६
कातन्त्रव्याकरणम्
८. गवियुधिभ्यां स्थिरस्य आभ्यां स्थिरस्य सस्य षो भवति । गविष्ठिरः, युधिष्ठिरः । 'विष्टरस्थां गविष्ठिराम्' इति भट्टिः। समासानुवर्तनाद् यत्र लुक्, तत्रायं मूर्धन्यः, स चाभ्यां संज्ञायामेव | समास इत्येव - गवि स्थिरो भारः, युधि स्थिरो राजन्यः ।।८।
९. मातृपितृभ्यां स्वसुः आभ्यां स्वसुः सस्य षो भवति । मातृष्वसा, पितृष्वसा ।।९।
१०. मातुः पितुर्थ्यां वा 'मातुः, पितुः' इत्येताभ्यां स्वसुः सस्य षो भवति वा । मातुष्वसा, पितुष्वसा । मातुःस्वसा, पितुस्वसा । मातृपितृभ्यां लुग् वा षष्ठ्याः । वाक्ये तु न स्यादेव- मातुः स्वसा, पितुः स्वसा ।।१०।
११. वर्णेऽभिनिसः स्तानस्य अभि- निस्पूर्वस्य स्तनतेर्घञन्तस्य वर्णेऽर्थे सस्य षो भवति । अभिनि:स्तन्यत इति अभिनिष्टानो विसर्गो वर्णश्च । वचः स्पष्टाभिनिष्टानम् । वर्ण इति किम् ? अभिनिस्तानो गर्भिण्याः ।।११।
१२. नदीष्णनिष्णातयोर्दाक्ष्ये दाक्ष्येऽनयोः सस्य षो भवति । नदीष्णः पान्थः । नद्यवगाहनदक्ष इत्यर्थः । 'ततो नदीष्णान् पथिकान् गिरिज्ञान्'इति भट्टौ । चारकर्मणि निष्णातः । दाक्ष्य इति किम् ? नद्यां स्नाति नदीस्नः । निःस्नातस्तीर्थे । निष्णातिरिति मतं चेत् सुषामादिषु द्रष्टव्यम् ।।१२।
१३. प्रष्ठोऽग्रगे अग्रगेऽर्थे प्रष्ठ इति भवति । प्रतिष्ठत इति प्रष्ठः । “सर्वनारीगुणैः प्रष्ठाम्" इति च । अग्रग इति किम् ? प्रस्थो यवानाम् ।।१३।
१४. विण्यहः सहेः विणि सति अहान्तस्य सहेः षो भवति । तुराषाट्, तुराषाड्भ्याम् । अह इति किम् ? 'तुरासाहं पुरोधाय' ।।१४।