________________
कातन्त्रव्याकरणम्
९८. चितेः के बहुव्रीहौ
बहुव्रीहौ के चितेर्दीर्घो भवति । द्विचितीकम्, बहुचितीकं श्मशानम् | बहुव्रीहाविति किम् ? चितिका, परमचितिका ।। ९८ । ९९. इचि सरूपे
५१४
इजन्ते समानरूपे पदे पूर्वस्य दीर्घो भवति । केशाकेशि, दन्तादन्ति “इज् व्यतिहारे” इतीच् । सरूप इति किम् ? द्वौ दन्तावस्येति द्विदन्ति प्रहरति । “द्विदन्त्यादिभ्यश्च " इति इच् ।। ९९ ।
१००. आच्च गुणिनः
गुणोऽस्यास्तीति गुणी असन्ध्यक्षरं नामी, तदन्तस्य सरूपे इजन्ते परे पूर्वस्याद् दीर्घश्च भवति । मुष्टामुष्टि, मुष्टीमुष्टि, बाहाबाहवि, बाहुबाहवि व्यासजेताम् || १००। १०१. स्त्रीप्रत्ययस्य लुगणादिलुक्यगोणीसूच्योः
अणादिलुकि सति स्त्रीप्रत्ययस्य लुग् भवति न तु गोणीसूच्योः । पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्वः । एवं पञ्चपटुः, पञ्चवेणिः, पञ्चक्रुङ्, पञ्चोष्णिक्, पञ्चक्रोष्टा । पञ्चभिर्युवतिभिः क्रीतः पञ्चयुवा । पञ्च इन्द्राण्यो देवता अस्येति पञ्चेन्द्रः । स्त्रीप्रत्ययस्येति किम् ? पञ्चतन्त्रीः, पञ्चजम्बूः । अणादिलुकीति किम् ? पञ्चानां तटीनां समाहारः पञ्चतटि | समाहारो हि नानद्यर्थतया गृह्यते । अगोणीसूच्योरिति किम् ? पञ्चगोणिः, पञ्चसूचिः । उपसर्जनत्वाद्ध्रस्वः सिद्धः ।। १०१ ।
॥ इति महामहोपाध्याय श्रीपतिदत्तविरचितायां कातन्त्रपरिशिष्टवृत्तौ नामप्रकरणं समाप्तम् ॥