________________
परिशिष्टम् -१
५१३ शदन्तायां च – द्वाचत्वारिंशत्, द्विचत्वारिंशत् । अष्टाचत्वारिंशत्, अष्टचत्वारिंशत् । त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत् । अष्टापञ्चाशत्, अष्टपञ्चाशत् । द्वापञ्चाशत्, द्विपञ्चाशत् । त्रयःपञ्चाशत्, त्रिपञ्चाशत् । अनशीति किम् ? व्यशीतिः, त्र्यशीतिः । त्रिंशदिति किम् ? अष्टाभिरधिकं शतम् अष्टशतम् । अबहुव्रीहावित्येव - द्वित्रिंशाः, त्रिविंशाः ।।९३।
९४. संज्ञायामनजिरादिबहुस्वरस्य वति दीर्घः अजिरादिवर्जितस्य बहुस्वरस्य वन्तुप्रत्यये संज्ञायां दी| भवति । अमरावती, वीरणावती, उदुम्बरावती, मशकावती, पुष्करावती, अनजिरादिरिति किम् ? अजिरवती, खदिरवती,
अजिरं खदिरशशाङ्कौ कारण्डवचक्रवाकपुलिनानि ।
मलयालङ्कारावपि हिरण्यमन्येऽपि चाकृतितः॥ बहुस्वरस्येति किम् ? वेत्रवती, भोगवती । संज्ञायामिति किम् ? तुरगवती सेना ।।९४।
९५. पद्मशरधूमकुशवंशमृगाणां च एषां संज्ञायां वन्तौ दी| भवति । पद्मावती, शरावती, धूमावती, कुशावती, वंशावती, मृगावती । द्विस्वरार्थं वचनम् ।।९५ ।
९६. अष्ठीवत्प्रभृतयश्च अष्ठीवप्रभृतयश्च निपात्यन्ते संज्ञायाम् । अतिशयेनास्थीनि सन्त्यस्मिन्निति अष्ठीवान् जानुः । कक्षा विद्यतेऽस्य कक्षीवान् ऋषिः। लवणं विद्यतेऽस्यामिति लवण्वती । उदकमस्यास्तीति उदन्वान् समुद्रः । एवम् आसन्दीवान् ग्रामः । चक्रीवान् खरः । अहीवती, कपीवती, अलीवती, ऋषीवती इत्यादयः ।।९६।
९७. वलचि च वलचि प्रत्यये च दीर्घो भवति |कृषीवलः,आसुतीवलः, दन्तावलः ।कृष्यासुतिदन्तेभ्यो वलच् । वलचीति किम् ? उत्साहवलः, पितृवलः, भ्रातृवलः । उत्साहपितृभ्रातरजःशिखापरिषदो वलः ।।९७।