________________
५१२
कातन्त्रव्याकरणम् प्रकृतिभिश्च - निर्भिस्त्रिका, निर्भस्त्रिका, निर्भस्त्राकेति सिद्धम् । अलमन्यत्र भस्त्राग्रहणम् । तत्रेति किम् ? जङ्घकः, चूडकः । तत्र "प्रसिते स्वाङ्गात्" इति कः । अपुंवृत्तादिति किम् ? अश्विका । बहुव्रीहाविति न स्मर्यते ।। ८७।
८८. अष्टनः कपाले हविष्यात् कपाले परे हविषि वाच्येऽष्टनः आकारो भवति । अष्टसु कपालेषु संस्कृतम् अष्टाकपालं हविः । हविषीति किम् - अष्टकपाल ओदनः ।। ८८।
८९. संज्ञायां च संज्ञायां चाष्टन आकारो भवति । अष्टावक्रो नामर्षिः । अष्टापदः शरभः । अष्टापदं शारिफलं कनकं च ।।८९ ।
९०. तद्योगिन्यष्टगवे अष्टगवयोगिन्यर्थे वर्तमानेऽष्टगवे स्थितस्याष्टन आकारो भवति । अष्टानां गवां समाहारः अष्टगवम्, तयुक्तं शकटादिकम् अष्टागवम् ।।९० ।
९१. दशविंशतित्रिंशत्सु द्वेश्चाबहुव्रीहौ अबहुव्रीहौ समासे दशविंशतित्रिंशत्सु परतो वेरष्टनश्चाद् भवति । द्वौ च दश च, द्वाभ्यामधिका वा दश द्वादश । एवं द्वाविंशतिः, द्वात्रिंशत् । अष्टाविंशतिः, अष्टात्रिंशत् । अबहुव्रीहाविति किम् ? द्विदश, द्विदशाः, अष्टदशाः ।।९१ ।
९२. त्रेस्त्रयस् अबहुव्रीहौ समासे दशविंशतित्रिंशत्सु परतस्त्रेस्त्रयसादेशो भवति । त्रयोदश, त्रयोविंशतिः, त्रयस्त्रिंशत् । अबहुव्रीहावित्येव - त्रिदश, त्रिदशाः ।।९२।
९३. तावनशीतिशतसंख्यायां वा अशीतिवर्जितायां त्यन्तायां शदन्तायां च संख्यायाम् अबहुव्रीहौ समासे तेषां तौ पूर्वविधी भवतो वा । अष्टासप्ततिः, अष्टसप्ततिः । द्वासप्ततिः, द्विसप्ततिः । त्रयःसप्ततिः, त्रिसप्ततिः ।अष्टानवतिः, अष्टनवतिः । द्वानवतिः,द्विनवतिः |त्रयोनवतिः, त्रिनवतिः । षष्टिरपि त्यन्तो निपातः- अष्टाषष्टिः,अष्टषष्टिः । द्वाषष्टिः,द्विषष्टिः । त्रयःषष्टिः, त्रिषष्टिः।