________________
परिशिष्टम् - १
८२. ओदौद् द्वितीयासु न स्त्रियाः
आसु स्त्रीशब्दस्योपसर्जनस्य ह्रस्वो न भवति । अतिस्त्रियोः, अतिस्त्रियौ, अतिस्त्रियम्, अतिस्त्रियः पश्य । उपसर्जनलक्षणस्य प्रतिषेधादिहाप्रतिषेध एव । अतिस्त्रिणोः कुलयोः ||८२ ।
८३. नेयन्सोर्बहुव्रीहौ
ईयन्सोः परस्य स्त्रीप्रत्ययस्य बहुव्रीहौ ह्रस्वो न भवति । बहुप्रेयसी, सुप्रेयसी युवा । नेयन्सोरिति बहुव्रीहौ कनिषेधः । उपसर्जनादपि स्त्रीकारान्तात् सिलोपः स्यादेव । कथं सुप्रेयसी कुलम् । नपुंसकस्यापि निषेधमिच्छन्ति तदिह पुनर्नञ्ग्रहणात् । बहुव्रीहाविति किम् ? अतिप्रेयसिः पान्थः, उपप्रेयसि प्रेम || ८३ । ८४. आदीदूतां के लिङ्गात्
५११
'आत्, ईत्, ऊत्' एषां लिङ्गाद् विहिते के ह्रस्वो भवति । सोमपकः, ग्रामणिकः, यवलुकः, वत्सिका, कुमारिका, ब्रह्मबन्धुका, कर्कन्धुका । एषामिति किम् ? गोका, नौका | लिङ्गादिति किम् ? काकः, पाकः । “इण्भीपाक०” इत्यादिना धातोः कः ॥ ८४ ॥
८५. न बहुव्रीहौ
एषां बहुव्रीहौ के ह्रस्वो न भवति । महोदधिक्राकः । सनदीकः, सवधूकः । भ्रुवस्तु को नास्त्येव । बभ्रुभ्रुरित्येव स्यात् ॥ ८५ ॥
८६. स्त्र्यातो वा
बहुव्रीहौ के स्त्र्याकारस्य ह्रस्वो वा भवति । बहुखट्वकः, बहुखट्वाकः । श्वेताश्वकः, श्वेताश्वाकः । बृहदजकः, बृहदजाकः । स्त्रीति किम् ? दृष्टरजाकः । बहुव्रीहावित्येव - बालिका, वत्सिका ।। ८६ ।
८७. तत्रापुंवृत्तादिच्च
अपुंवृत्ताद् विहितस्य स्त्र्यातस्तत्र स्त्र्याकारे के इत् ह्रस्वश्च वा भवति । मालिका, मालाका । कन्यिका, कन्यका, कन्याका । भस्त्रिका, भस्त्रका, भस्त्राका । आभिः