________________
कातन्त्रव्याकरणम्
७९. अधातुत्यप्त्यणां यकाभ्यामस्य श्रद्धायाः अधातोरत्यप्त्यणोश्च यकारककाराभ्यां परस्य श्रद्धास्थानिनोऽकारस्य स्त्र्याकारे के इकारो भवति वा । भ्रातृव्यिका, भ्रातृव्यका | अपत्ये भ्रातुर्व्यः । अब्भ्रे भवा अप्रियिका, अब्धियका | तत्र भवे अब्भ्रसमुद्राभ्यामियः । दूरे भवा दूरेत्यिका, दूरेत्यका | दूरादेत्यः । कात् – चटकिका, चटकका । एडकिका, एडकका | मूषिकिका, मूषिकका | अधातुत्यप्त्यणामिति किम् ? आदियका, शिक्षाकिका, आध्यायति । शिक्षा कायतीतिडकौ |इहत्यिका, अत्रत्यिका |क्वेहात्रतसस्त्यप् |अमात्यिका नित्यधिष्ट्यामात्या इति त्यपि निपातः । दाक्षिणात्यिका । दक्षिणापुरःपश्चाद्भ्यस्त्यण् । श्रद्धाया इति किम् ? बहुशस्यिका, निष्काकिका भूः । कः समासान्तः । सांकाश्ये भवा- सांकाश्यिका, काम्पिल्ये भवा - काम्पिल्यिका | योपधादकण् ।।७९ ।
८०. द्वैषाजाङ्गास्वानाम् स्त्र्याकारे एषामाकारस्येकारो भवति वा । द्विके, द्वके । द्विकाभ्याम्, दुकाभ्याम् । एषिका, एषका । अजिका, अजका । अङ्गिका, अङ्गका | स्विका, स्वका । एषामुपसर्जनानामपि द्वे रूपे भवतः । बह्वजिका, बह्वजका | बह्वङ्गिका, बह्वङ्गका । बहुस्विका, बहुस्वका । स्त्रीनिर्देश इति किम् ? शुभ्रोऽजो यस्याः सा शुभ्राजिका । प्रियोऽङ्गो यस्याः सा प्रियाङ्गिका ।। ८०।
८१. गोस्त्रीप्रत्ययस्योपसर्जनस्यान्त्यस्य ह्रस्वः गोशब्दस्य स्त्रीप्रत्ययस्य चोपसर्जनान्त्यस्य ह्रस्वो भ्वति । बहुगुः, अतिखट्वः । अलं जायायै अलंजायः, निष्कौशाम्बि, अलंकुमारिः, अतिवामोरूः । तथा पञ्चखट्वी, पञ्चमालिः । समाहृतिप्राधान्यादिहोपसर्जनंता । द्रव्यप्राधान्येऽपि द्विगुमिच्छन्तः कथं ह्रस्वं प्रतिपद्यन्ते । गोस्त्रीप्रत्ययस्येति किम् ? अतितन्त्रीः, अतिजम्बूः । निस्तन्त्रारवितथसंस्कृतप्रभाषीत्यपि स्यादेव । उणादिषु धातुनिर्देशस्योपलक्षणत्वात् तन्त्रेरपीप्रत्ययः । तन्त्रीररुचिरालस्यमित्याचार्येण प्रयुक्तं हि । तन्त्रीशब्दोऽपि तन्त्रान्तरे उणादिवृत्तौ । 'नन्दी वन्दी च तन्त्रीः' इति त्रिकाण्डे च दृश्यते । यस्यायं प्रयोग:- "विभज्य नक्तन्दिवमस्ततन्त्रिणा" इति । यस्य च भूमीरतन्त्रीयम् इति रूपम् ।। ८१ ।