________________
५०९
परिशिष्टम्-१
७२. न यत्तदोः अनयोः स्त्र्याकारे के इकारो न भवति । यका, सका । यकाम्, तकाम् । यकाभिः, तकाभिः ।।७२।
७३. त्यकनाशीरकयोश्च त्यकन्प्रत्ययस्याशिषि विहिताकस्य च स्त्र्याकारे के इकारो न भवति । अधित्यका, उपत्यका | अध्युपाभ्यामू सन्नयोस्त्यकन् । आशीरकस्य च - जीवका, नन्दका, प्रजनका, प्रसवका, प्रभवका ||७३ |
७४. क्षिपकादिषु च क्षिपकादिषु इकारो न भवति ।
क्षिपका ध्रुवका चैव करका धारकेष्टका। एडका चटकायाश्च पितॄणामष्टका भवेत् ॥७४।
७५. तारका रूढौ रूढौ तारकेतीकारों न भवति । तारका नक्षत्रम्, नेत्रांशश्च । रूढाविति किम् ? तारिका धीवरी ||७५।
७६. वर्णका वस्त्रे वस्त्रे वर्णकतीकारो न भवति । वर्णका वस्त्रान्तरम् । वस्त्र इति किम् ? वर्णिका नटस्य कणकस्य च ||७६।
७७. वा सूतपुत्रवृन्दारकारणाम् एषां स्त्र्याकारे इकारो भवति वा । सूतिका, सूतका ।पुत्रिका, पुत्रका |वृन्दारिका , वृन्दारका । वृन्दारेत्येकदेशानुकरणम् ।।७७।
७८. वर्तका शकुनौ शकुनौ वर्तकेतीकारो भवति वा । वर्तिका, वर्तका शकुनिः । शकुनाविति किम् ? वर्तिका दीपस्य ।।७८।