________________
५०८
कातन्त्रव्याकरणम्
६७. प्रागामन्त्रितपदमसद्वत् आमन्त्रितं पूर्वपदमसद्वद् भवति । छात्रा युष्माकं स्वम्, छात्रौ युवयोः स्वम् । छात्र ! तव स्वम्, छात्रा अस्माकं स्वम्, छात्रौ ! आवयोः स्वम्, छात्र ! मम स्वम्, छात्र ! त्वां नेष्यति ग्रामान्, छात्र ! मां नेष्यति ग्रामान् । प्रागिति किम् ?
रागसागरमग्नानामस्माकमभयप्रद !
पुनातु विश्वमीशस्य तव विश्वम्भरस्मृतिः॥ परस्य सत्त्वमेवेति पादादित्वान्निषेधः स्यात् । आमन्त्रितादिति सिद्धेऽसद्वद्भावः पूर्वतरात् पदाद् विधिर्यथा स्यादिति । गृहे छात्रा ! वः स्वम्, गृहे छात्राः नः स्वम् । तथा च "उचितं रचयामि देवि! ते" ।।६७।
६८. जसेकाधिकरणे वा जसन्तमामन्त्रितमेकाधिकरणे परतोऽसद्वद् भवति वा । छात्राः कौमाराः । युष्माकं स्वम्, छात्राः कौमाराः ! अस्माकं स्वम् ! छात्राः कौमाराः ! वः स्वम्, छात्राः कौमाराः ! नः स्वम् । इयमन्वादेशे विभाषोदाहर्तव्या ।।६८।
६९. न सामान्यार्थमजस् सामान्यवचनमजसन्तमामन्त्रितमेकाधिकरणे परतो नासद्वद् भवति । छात्रौ गुणिनौ ! वां स्वम्, छात्र गुणिन् ! ते स्वम्, छात्रौ गुणिनौ ! नौ स्वम् । छात्र गुणिन् ! मे स्वम् । सामान्यार्थमिति किम् ? डित्थ काश्मीरक ! तव स्वम्, डित्थ कालिङ्गक ! मम स्वम् । अजसीति किम् ? छात्राः कौमाराः! युष्माकं स्वम् इति वा स्यात् ।। ६९ ।
७०. इत् के स्त्र्याकारे स्त्रियामाकारो यस्मात् स स्त्र्याकारः, स्त्र्याकारे के पूर्वस्येकारो भवत्यधिकर्तव्यम् ।।७०।
७१. नरकमामकयोः अनयोः स्त्र्याकारे के पूर्वस्येद् भवति । नरं कामयते इति अन्यतोऽपि चेति ड:- नरिका |ममेयं मामिका |मामकात् संज्ञायामेवेत् । अप्रत्ययककारार्थं वचनम् ।।७१ ।