________________
परिशिष्टम् -१
५०७ परस्परम् इति क्रियाविशेषणत्वेऽपि पुंस्त्वमेव । नपुंसकत्वे हि तुरागमः स्याद् अन्यादित्वात् । न ह्येषां सर्वनामगणे प्रतिपदपाठोऽस्तीत्येकं मतम् । सर्वनामगणेऽन्यादेरन्यत्र नपुंसकान्यमून्युपदेश्यानीति अपरे मन्यन्ते । एभ्योऽमादेशोऽपि बहुलमिति केचित् । 'अमामौ वा' इति पठन्ति एके। आमन्तस्य च प्रायः प्रयोगो दृश्यते ।। ६३ ।
६४. वसादयो यथास्वम् अन्वादेशे अन्वादेशे यथास्वं यथायथं वसादयो नित्यम् भवन्ति । पुत्रो युष्माकम्, अथो वः कम्बलः । पुत्रोऽस्माकम्, अथो नः कम्बलः । पुत्रो युवयोः, अथो वां कम्बलः । पुत्र आवयोः, अथो नौ कम्बलः । पुत्रस्तव, अथो ते ग्रामः । पुत्रो मम, अथो मे धनम् । द्वितीयाचतुोरप्येवम् । तथा पुत्रस्त्वां पातु, अथो त्वा स्मरत्युपाध्यायः । पुत्रो मां पातु, अथो मा स्मरति शिष्यः ।।६४।
६५. वा सपूर्वात् प्रथमान्तात् विद्यमानपूर्वपदात् प्रथमान्तात् परेषामन्वादेशे यथायथं वसादयो वा भवन्ति । युष्माकमाश्ममागारम्, अथो गृहे लाक्षिको वः कम्बलः, अथो गृहे लाक्षिको युष्माकं कम्बलः । अस्माकमत्युच्चा गृहाः सन्ति, अथो गृहे गावो नः सन्ति । अथो गृहे गावोऽस्माकं सन्ति । युवयोर्ब्राह्मणकः पिता । अथो माता वृषली वाम् । अथो माता वृषली युवयोः । आवयोर्ब्राह्मणः पिता । अथो माता आचार्यानी नौ । अथो माता आचार्यानी आवयोः । तवायं जाल्मो दासः, अथो गृहे भार्या तव । ममायं जाल्मो दासः, अथो गृहे भार्या मे | अथो गृहे भार्या ममेत्येवमादयः ।।६५ |
६६. न दृगर्थेरालोचने आलोचनवृत्तैर्दर्शनार्थेोंगे वसादयो न भवन्ति । ग्रामो युष्मान् समीक्षते । ग्रामोऽस्मान् समीक्षते । आलोचयतीत्यर्थः । दृगथैरिति किम् ? ग्रामो वः सम्प्रधारयति । आलोचने इति किम् ? ग्रामो वः पश्यति । अधातुज समानाधिकरणमसद्वद् भवति इति भाष्यस्मृतेरिहाप्यकृदन्तादेकाधिकरणाद् व्यवस्थितविभाषया वसादयो न भवन्तीति लक्ष्यते । गोमतां युष्माकं स्वम्, दण्डिनोर्युवयोः स्वम् । पाशुलस्य तव स्वम् । एवम् अस्मदोऽपि कृदन्तात् पुनरनिषेधः । पाचकानां वः स्वम्, ग्राहिणोर्वां स्वम्, दरिद्रस्यते स्वम् । एवमस्मदोऽपि ।। ६६ ।