________________
५०६
कातन्त्रव्याकरणम्
५८. त्यादेश्च त्यादेश्चान्त्यात् स्वरात् पूर्वोऽग् भवति वा । पचतकि, पचति । बुभुजके, बुभुजे । अन्त्यात् स्वरादित्येव । अददात्, अदात् ।तदेतत् कुत्सादयश्चार्था अपेर्बहुलकत्वात् ।। ५८।
५९. तूष्णीकाम् तूष्णीमो मकारात् पूर्वः का इत्यव्ययं भवति वा । तूष्णीकाम्, तूष्णीम् । तूष्णीकाम् इति प्रकृत्यन्तरं चेदक् स्यात् तस्यापवादोऽयमिष्यते ।। ५९।
६०. न सामि सामीत्यर्धार्थमव्ययम्, तस्याक् न भवति । सामि भुज्यते, सामि मज्जति रवौ न विरेजे ।। ६०।
६१. कस्तोऽकि अकि सति कान्तस्याव्ययस्य तो भवति । धिक्, धकित् । पृथक्, पृथकत् ।। ६१ ।
६२. ऋद्ध्यर्थनदीवंश्याव्ययीभावाददोऽम् सप्तम्याः ऋद्ध्यर्थनदीवंश्यानां योऽव्ययीभावस्तस्मादकारान्तात् सप्तम्या नित्यमम् भवति । सुमद्रम्, द्वियमुनम्, उन्मत्तगङ्गम्, लोहितगङ्गम् । देशे - एकविंशति भारद्वाजम् । कथम् उपगङ्गे, उपगायें ? नदीवंश्यश्रुतिविहिताव्ययीभावग्रहणात् ।। ६२ ।
६३. वान्योऽन्येतरेतरपरस्परेभ्योऽमादेरपुंस्याम् एभ्यः परस्यामादेरपुंसि विषये आमादेशो भवति वा । एभ्यः प्रथमा नाभिधीयते इति वृद्धाः ।अन्योन्याम्, अन्योन्यं वा स्त्रियः पश्यन्ति । एवं ब्राह्मणकुलानि ।अन्योन्याम्, अन्योन्येन वा स्त्रीभिर्भुज्यन्ते, एवं ब्राह्मणकुलैः । अन्योन्याम्, अन्योन्यस्मै वा स्त्रियः स्पृहयन्ति । एवं ब्राह्मणकुलानि । अन्योन्याम्, अन्योन्यस्माद् वा स्त्रियो विरमन्ति । एवं ब्राह्मणकुलानि । अन्योन्याम्, अन्योन्यस्य वा स्त्रियः स्मरन्ति । एवं ब्राह्मणकुलानि । अन्योन्याम्, अन्योन्यस्मिन् वा स्त्रियोऽनुरज्यन्ते । एवम् ब्राह्मणकुलानि । एवम् इतरेतराम्, परस्पराम् । अपुंसीति किम् ? अन्योन्यं पुरुषाः पश्यन्ति, अन्योन्यम् इभौ विघट्टयतः । अन्योन्यादयः पुंस्त्वैकत्वयोरिव स्वभावात् । अन्योन्यम्, इतरेतरम्,