________________
५०५
परिशिष्टम् -१
५४. रात् सस्यैव रेफात् परस्य संयोगान्तस्य सस्यैव लोपो भवति । कटचिकीः, कटचिकीर्ष्याम्, कटचिकीस्तरः । द्रोणबुभूः, द्रोणबुभूाम्, द्रोणबुभूस्तरः । नियमः किम् ? ऊौं, ऊग्भ्याम् । एवेति नियमान्तरनिवृत्त्यर्थं पदान्तत्वान्मूर्धन्यनिवृत्तौ लोपोऽयमिति ।। ५४।
५५. न सन् डादौ डकारादौ कर्तव्ये लुप्तः संयोगान्तः सन् न भवति । गिरिवेश्मानमाचष्टे गिरिवेट् । महोष्माणमाचष्टे महोट् । अदभ्रमाचष्टे अधट् । द्विजिह्वमाचष्टे द्विजिट् । इह दस्य धत्वं जस्य झत्वं च नास्ति । हचतुर्थान्तस्य तृतीयादेरेकस्वरस्यैवाजकारादेरादिचतुर्थत्वं व्यवस्थितविभाषाविज्ञानात् । कथन्तर्हि मृगावित्, मृगाविद्भ्याम् | चतुर्थविधौ बिभ्यत्सतीत्युदाहृतं पूर्वैर्युत्पादितं च न्यासादौ ? सत्यम् । अभ्यासादेवाकृतसंप्रसारणस्यैव व्यधेरोष्ठ्यो बकारोऽन्यत्रान्तस्थैव । ओष्ठ्यो यकारपरो मध्य इति शिक्षाकाराः पठन्ति । एवं च "इषुव्यधाद् वधाद्" इति माघयमकेऽप्यभङ्गः । अपरे त्वन्तस्थादिमविशेषणे व्यधिं प्रतिपद्यन्ते ।। ५५।
५६. वा सायसंख्याविभ्योऽह्नस्याहन डौ सायादिभ्यः परस्यात्प्रत्ययान्तस्याहृत्यस्य ङौ परेऽहन्नित्यादेशो भवति वा । सायाह्नि, सायाहनि, सायाह्ने । ट्यह्नि, व्यहनि, व्यह्ने । व्यह्नि, व्यहनि, व्यह्ने । अज्झलादिगत्वप्रतिषेधो न परिशिष्यते दृगादिसाहचर्याच्चवर्गस्यापि कृदन्तस्यैव गत्वं स्यात् । विश्वसृग् इति गत्वं तु दृगादित्वात् । भाष्यस्थित्यापि विश्वसृगिति गत्वेन भवितव्यम् । अत एव रज्जुसृडिति डत्वम् प्रयतितव्यमिति काशिकादौ । अकारस्येह ङकारोऽपि विरामव्यञ्जनयोरप्रतिविधेयो नञादिप्रयोगेष्वदृष्टत्वात् । स्थितानामन्याख्यानं हि व्याकरणमिति भाष्यम् ।। ५६।
५७. अनोत्सभः सर्वनामस्यादेरप्यक् ओकारसकारभकारादेरन्यस्य सर्वनामस्यादेरन्त्यात् स्वरात् पूर्वोऽग् भवति वा । त्वयका, त्वया । मयका, मया । भवतकः, भवतः । स्याद्यका प्रकृत्यको बाधनमिष्यते । ओकारसकारभकारादौ तु युवकयोः, युष्मकासु, युष्मकाभिरिति ।। ५७।