________________
नामचतुष्टयाध्याये प्रपमो पातुपादः धूमस्येति समानाधिकरणबहुव्रीहिरेव सङ्गच्छते । अत एव केन प्रयोजनेनेत्यादौ सर्वत्रेतिशब्दं प्रयुञ्जानेन पत्रिकाकृता मशकनिवृत्तिरभिधीयते इत्यत्र स्वरूपार्थप्रतिपादक इतिशब्दो न प्रयुज्यत इति ।
यद् वा मशकाय अयमिति चतुर्थीतत्पुरुषः, तर्हि कथमभिधानकाण्डे निवृत्तेः पृथक् कृत्वा प्रयोजनं पठितमिति ? सत्यम् । निवर्तनीयत्वेन यत् प्रयोजनं तदेव निवृत्तिरित्यभेदबुद्ध्या निवृत्तावपि पठितम् इत्युमापतिः, तन्न । मशकस्य निवृत्तिर्यस्माद् धूमादिति व्यधिकरणबहुव्रीहिरेव श्रेयान् । तर्हि मशकस्य निवृत्तिर्भवतीत्यर्थे मशकार्थो भवतीत्यपप्रयोगः स्यात् ? चेद् भवति, एवं विवक्षिते अर्थशब्दस्य निवृत्त्यर्थदर्शनात् । तथाहि "बसेरश्यर्थस्य" इति वामनसूत्रे अशेर्भोजनस्यार्थी निवृत्तिर्वाच्यत्वेन यस्येति विग्रहे भोजननिवृत्तिवचनस्येति प्रतीयते । यत्तु उमापतिना 'न चेदृशः प्रयोगः क्यापि दृश्यते' इत्युक्तं तत् किमस्माकमपराधः, 'न गरुणकिरणावलीनामपराधो यजीवलोकमुलूको नावेक्षते' इति । अभिधेयार्थग्रहणे सति दोषमाशङ्कते यद्येवमित्यादि । शशविषाणमित्यादि । तथा च श्लोकः
एष बन्ध्यासुतो याति खपुष्पकृतशेखरः।
मृगतृष्णाम्भसि स्नात्वा शशशृगधनुर्धरः।। इति || अभिधेयसत्तासमाविष्टेत्यादि । अभिधेयशब्देनात्र प्रतीयमानेत्युच्यते । अभिधेया चासौ सत्ता चेति, तया समाविष्टं संयुक्तमभिधेयं प्रतिपाद्यं यस्य शब्दस्यास्तीत्यर्थः । ननु वस्तुसत्तासमाविष्टमभिधेयं विहाय कथमभिधेयसत्तासमाविष्टमभिधेयं गृह्यते इति चेद् व्याप्तिन्यायात् । व्याप्तिमेव दर्शयति-ईदृशमित्यादि । अभिधेयं प्रतिपायमित्यर्थः। सर्वेषामिति शशविषाणादीनामित्यर्थः । यत इत्यादि । भूतं हि अतीतत्वेन प्रतीयमानम् । यथा 'रामो वनम् अगच्छत्' । एवं भविष्यदत्यन्तासच्च बोध्यम् । यथा - बलिरिन्द्रो भविष्यति, शशविषाणमिति ।
ननु "अर्थवदधातुरप्रत्ययः प्रतिपदिकम्" (अ० १/२/४५) इति पाणिनिना नद्वयविधानं तत्पुरुषशङ्कानिरासार्थं क्रियते तदभावादस्मन्मते कः समासः स्यादित्याह-अथ कथमित्यादि । किम्प्रकारः समास इत्यर्थः । त्यादिवर्जमिति कुर्यादिति । ननु त्यादिवर्जमिति कृते आख्यातिकविभक्तीनामेव वर्जनं स्यात् । धातुविभक्तिवर्जमिति गुरुनिर्देशः पुनर्गौणस्यापि कृदन्तस्य वर्जनार्थं कथन्न स्यात् ? एवं तर्हि व्याप्तिन्यायेनैव द्वन्द्वो मन्तव्यः । प्रख्यातत्वे विप्रतिपन्नं प्रत्याह – यदि चेत्यादि । तद्धि इत्यादि । ननु