SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ १६ कातन्त्रव्याकरणम् इतरवर्णोच्चारणस्य वैयर्थ्यं स्यात् । नन्वर्थस्य कियानवयवेनोच्यते इति चेत्, न । नहि वकारोच्चारणेन वृक्षसम्बन्धि पत्रं शाखा वा प्रतीयते इति । । इदानीं पत्रिका व्याख्यायते- अभिधेयेत्यादि । ननु धर्मिणां भेदे हि द्वन्द्वः क्रियते | अत्र तु सर्वस्यैवाभिधेयस्वरूपत्वादभिन्नार्थत्वेन स कथं घटते, न हि भवति घटकलशाविति ? सत्यम् । धर्मिणोऽभिन्नत्वेऽपि अभिधेयत्व- धनत्वधर्मयोर्भेदमादाय द्वन्द्व इति । यथा “'प्रमाण-प्रमेय-संशय०" (न्या० सू० १/१/१) इत्यादिन्यायसूत्रे द्वन्द्व इति । ननु बहुष्विति किमुक्तम्, धनेष्वित्युक्ते बहुवचनसामथ्यदिव बहुलार्थो लभ्यत इति ? सत्यम्, प्रयोगाविर्भावायेति हेमकरः। वस्तुतस्तु बहुशब्दः कारणाद्यर्थपरिग्रहः । तथा च कोशः अर्थोऽभिधेये शब्दानां धन-कारण-वस्तुषु। प्रयोजने निवृत्तौ च विषये च प्रवर्तते ।। __ (द्र०, अ० को० ३।३।८६; मेदिनी० ७२।२) इति । यत्तु पत्रिकायां साक्षाच्चतुर्णामेवोपादानं कृतम्, तत्तु प्रसिद्धमादायैवेति न दोषः । अस्मिन् व्याख्यानेऽभिधेयस्य परस्परसंस्पर्शात् तद्भिन्ना ये निवृत्त्यादयोऽर्थाः परस्परासंस्पर्शिनस्तेषामन्यतमस्य ग्रहणे द्वयोरेवावस्थितत्वात् कथमन्येषामिति बहुवचनं संगच्छत इति देश्यमपास्तम् । तदवस्थमिति । सैवानवस्थेवावस्था यस्यानवस्थादेश्यस्येति विग्रहः । अनवस्थामेव विवृणोति यावदयमर्थ इत्यादि । मशकार्थोऽयं धूम इति । ननु यदि अर्थशब्दो निवृत्तिवचनस्तदत्र कः समासः स्यात् ? न तावत् षष्ठीतत्पुरुषः, निवृत्तेधूमपदेन सामानाधिकरण्याभावात् । नापि मशकस्य निवृत्तिर्यस्माद् धूमादिति व्यधिकरणबहुव्रीहिः, तस्य प्रयोगदृष्ट्यैव क्लृप्तत्वात् । व्यधिकरणबहुव्रीहिरेवात्र इष्यते इति चेत् तदा मशकस्य निवृत्तिर्भवतीत्यर्थे मशकार्थो भवतीत्यपप्रयोगः स्यात् । न चेदृशः प्रयोगः क्वापि दृश्यत इति ? सत्यम् । अर्थशब्देन निवृत्तिः साक्षान्नोच्यते, किन्तु तात्पर्यवृत्त्यैव । तथाहि अर्थशब्देन प्रयोजनमेवोच्यते,तच्च द्विविधम्- प्रवर्तनीयत्वेन निवर्तनीयत्वेन च । यथा पुण्यार्थं तपः पुण्यप्रवर्तनार्थं तपः । पापार्थं गङ्गास्नानम्= पापनिवृत्तये गङ्गास्नानम् । एतेन प्रकृतेऽपि मशको निवर्तनीयत्वेन प्रयोजनं यस्य १. प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजाति निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः (गौ० न्या० सू० १।१।१)।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy