________________
नामचतुष्टयाध्याये प्रथमो धातुपादः संभवति । नैयायिकानां मते यद्यपि वृत्त्या पदजन्यपदार्थोपस्थितिं विना नान्वयबोध इति नियमाद् भेदविवक्षां विनापि शब्दानुकरणस्वरूपस्येतरपदार्थेन सहान्वयार्थमवश्यं लक्षणया पदस्य स्वरूपोपस्थापकत्वं वाच्यम्, तथापि यत्रेतिशब्दप्रयोगस्तत्र तेनैवेतिशब्देन स्वशक्त्या प्रथमोपस्थितशब्दस्वरूपोपस्थापने कृते सति तस्य पुनरितरपदार्थेन सहान्वयः, प्रथमोपचारितानुकरणशब्दस्य स्वरूपोपस्थापनार्थं वृत्तिकल्पने मानाभावाद् गौरवाच्च ।
न च इतिशब्दस्थितौ अनुकरणस्य वैफल्यमिति वाच्यम्, इतिशब्दस्य प्रक्रान्तवाचित्वेन तद्विना विशेषबोधकत्वाभावात् । अत इतिशब्दसहितं राज.न् इति प्रत्युदाहृतम्, अतो निरर्थकत्वमनुकरणस्य सिद्धमेव । वृत्तिकारोऽपि उन्मत्तवचनानुकरणस्य इत्यनुक्त्वा अनुकार्यानुकरणयोरभेदप्रतिपादनायोन्मत्तवचनस्येत्युक्तवान् । त्रिलोचनोऽपि भेदस्याविवक्षायामित्युक्तवान् । अभेदस्तु साहजिक, भेदः पुनर्विवक्षावशाद् भवति, सोऽत्र न विवक्षितः, असत एव विवक्षा संभवतीति । एतेन राजन्-शशविषाणयोस्तु महान् भेदः सिद्धः । शशविषाणस्य वृत्त्युपस्थाप्यार्थेनार्थवत्त्वाद् ‘राजन्' इत्यत्र वृत्तिरेव नास्तीति संक्षेपः।
हेमकरस्त्वाह - राजेत्युन्मत्तवचनं तस्यानुकरणं राजन् इति कथं भवति । यतो यथोक्तवर्णसमुदायप्रतिपादनार्थमनुकरणं संधीयते । न तु राजन्' इति राजेति वर्णसमूह प्रतिपादयति ? सत्यम् । अर्थानुकरणमिदम् ‘राजन्' इत्युन्मत्तवचनस्यानर्थकत्वं ज्ञापयति, तदसत् । यदर्थानुसंधानेन प्रयोक्त्रा प्रयोगः क्रियते, तदर्थानुसन्धानेनानुक्रियमाणस्यैवार्थानुकरणत्वात् । नहि उन्मत्तेनाहं राजा न भवामीति प्रतिपद्यते, ततश्च 'प्रकृतिवदनुकरणस्य' (व्या०परि० ८६) इति न्यायेन लिङ्गसंज्ञाकार्यस्यानिवार्यतैव । ननु 'अर्थवद्ग्रहणे नानर्थकस्य' (कात०प०४) इति न्यायादर्थवतां धातुविभक्तीनां वर्जनेन 'यादृगुजातीयस्य' (कात० प०९०) इति न्यायाद् वार्थवतामेव लिङ्गसंज्ञा भविष्यति किमर्थवद्ग्रहणेन ? सत्यम्, अर्थवद्ग्रहणं विशिष्टार्थप्रतिपादनार्थम् ।तेन वृत्त्युपस्थाप्यार्थप्रतिपादकताभिव्याप्तिमत्त्वमर्थवत्त्वमिति व्याख्यानस्य शक्यत्वमिति । नन्वर्थवद्ग्रहणे नानर्थकस्येत्यत्रापि एवं व्याख्या क्रियते चेत्, सुखार्थमर्थवद्ग्रहणमिति। ___ हेमकरस्त्वाह-नन्वर्थवतां वर्जनादर्थवतामेव लिङ्गसंज्ञा भविष्यति कुदेश्यमेतत्, यतो व्-ऋ-क्-षां वर्णानामप्यर्थवत्त्वमनिवार्यमिति, तन्न । नहि वृक्षसंबन्धिनां व्-ऋक्-षामेकैकस्य कोऽप्यर्थोऽस्तीति । अथास्तीति चेत् तदा एकवर्णोच्चारणेनैवार्थप्रतीतौ