________________
कातन्त्रष्याकरणम् एकैकश इति । ननु “संख्यैकार्थाभ्यां वीप्सायाम्' (२।६।४०-९)इति शस्प्रत्ययस्य विधानाद् उक्तार्थतया द्विर्वचनस्य व्यर्थत्वेन कथम् एकैकश इति । तथा च तत्र वृत्तौ 'द्वौ द्वौ देहि द्विशो देहि' इत्युदाहृतम्, सत्यम् । तत्र “वीप्सायाम्" इति सप्तमी द्विधा भियते - विषयतया अभिधेयतया च । ततो विषयपक्षे शब्दप्रतिपाद्यवीप्सायामेव शसो विधानान्नास्त्यर्थतेति । यद् वा एका लिङ्गसंज्ञा एकशः क्रमशो मा भूत् । यद् वा ‘एकैकशः' इति प्रकृत्यन्तरम् । तथा च भारते- "स्वयमेकैकशः पुत्राः पतन्ति युद्धदुर्मदाः" इति । यद् वा एकस्य एकशः ‘एकैकशः' इत्येकस्य व्-क्र-क्-षादेरेकशः क्रमशो लिङ्गसंज्ञा मा भूत् । ननु ‘अवयवसिद्धेः' (व्या०प० १०८) इति न्यायात् समुदायस्यैव लिङ्गसंज्ञा भविष्यति, नतु अवयवस्यैवेत्याह - राजन् इत्यादि, उन्मत्तवचनानुकरणस्येत्यर्थः । अयमाशयः - राजेति वक्तव्ये उन्मत्तो मत्ततया राजन् इत्याह, तत्समीपवर्ती किमयमाह ? इत्यपरेण पृष्टः सन् अनुकरोति राजन् इति; तदिदं प्रत्युदाहरणम् अनुकरणमन्तरेणापदस्यासाधुत्वात् । असाधुशब्दस्यानुकरणस्यापि साधुत्वमिष्यते । तत्तु “तत्र चतुर्दशा०" (१/१/२) इत्यादौ प्रतिपादितम् । ननु कथं तस्यानुकरणस्यानर्थकत्वम्, अनुकार्यप्रतिपादकत्वादेवार्थवत्त्वात्, नैवम् । यन्मते शब्दो नित्यस्तन्मते उन्मत्तवचनानुकार्येण सहानुकरणस्याभेदेन निरर्थकत्वं सिद्धिमिति । अत एव अनुकरणेऽपि उन्मत्तवचनस्य चेत्युक्तं वृत्तिकृता। तर्हि शब्दस्वरूपोऽर्थः केन निवार्यताम् ? नैवम् । अर्थशब्देनात्र वृत्त्युपस्थाप्यार्थाभिधानात्, नहि राजन् इति शब्दस्वरूपे राजन्शब्दस्य वृत्तिरस्ति । ननु 'वृत्तिर्हि द्विधा शक्तिलक्षणान्यतररूपा'। तत्र शक्तिर्मा भूत्, लक्षणा केन निवार्यते । नहि लक्षणामन्तरेण शब्दस्वरूपार्थप्रतिपादने किमपि सामर्थ्यमस्तीति ? नैवम्, शास्त्रेण मनसा वा शब्दस्वरूपोपस्थितौ सत्यां पुनः स्वरूपोपस्थित्यर्थं वृत्तिकल्पने प्रमाणाभावात्, गौरवाच्च । नहि ढक्कादीनां शब्दा अपि शक्त्या लक्षणया वा गृह्यन्ते (वृत्त्यर्थो) वृत्त्या स्वरूपोपस्थापनेऽपि प्रथमं तु तद्वर्णात्मकशब्दज्ञानस्यावश्यकत्वात्, न ह्यनुपस्थितः शब्दः शक्त्या लक्षणया वा कञ्चिदर्थमुपस्थापयतीति प्रभाकराः। ____ कथं तर्हि "न सखिष्टादावग्निः" (२/२/१) इत्यत्र शब्दानुकरणाद् विभक्तिरिति चेदुच्यते, यत्र प्रत्यक्षेण स्वरूपोपस्थितावपि तज्जातीयशब्दान्तरस्वरूपोऽर्थोऽभिमतः, तत्रावश्यं वृत्तिरपि कल्पनीया । नहि शब्दान्तरं शास्त्रेण मनसा वा प्रत्यक्षेणोपस्थितं