________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
तदसत्, ‘अ उस्— इति कृतेऽपि सिचः साहचर्याद् अद्यतन्या अकार एव ज्ञातव्यः, कुतः परोक्षाया अकारस्य प्रसङ्गः ? न च उस्-विधौ अदिति कृते नकारकरणं व्यर्थमिति वाच्यम्, तस्यानुबन्धत्वे प्रमाणाभावात् । तस्माद् वृक्षानितिवदभूवन्नित्यत्रापि नकारकरणाल्लोपो न भविष्यति, किं विभक्तिवर्जनेन ?
१३
केचित्तु 'अश्वयुजमाचष्टे' इति इनि कृते विभक्त्यन्तभागस्य लिङ्गत्वे परत्वाद् विभक्तिलोपं बाधित्वा “इनि लिङ्गस्य" (३/२/१२) इत्यादिनाऽन्त्यस्वरादिलोपो भवन् अमो लोपः स्यात् । ततश्च क्विपि कृते 'अश्वय्' इति साधितव्ये 'अश्वयुग्' इति प्रयोग: : स्यात्, तन्निरासार्थमेव विभक्तिवर्जनं कार्यमित्याहुः । तदसत्, यावता “यावत्सम्भवस्तावद्विधिः” (कात०प०५७) इति न्यायादत्रैवामो लोपेऽपि पुनरुज्भागलोपस्य निवारणाशक्यत्वात् । एतद् दूषणम् असङ्गतमेव, यतोऽनेनैव न्यायेन पुनरप्यश्वय्शब्दस्यायुभागलोपप्रसङ्गात् । न चेयमनवस्थेति वाच्यम्, यावदनेकस्वरत्वं तावदेव लोपप्रसङ्गात् । अतोऽमो लोपे 'असिद्धं बहिरङ्गम्' (काला० प० ४२ ) इति न्यायात् पुनरुज्भागस्य लोपो न भवतीत्ययमपि सिद्धान्तः।
अन्ये तु विभक्त्यन्तस्य लिङ्गसंज्ञायां सत्याम् ' उपकुम्भम्' इत्यत्र संख्याकर्मादिविशेषाभिव्यक्तये पुनर्विभक्त्युत्पत्तिः स्यादित्याहुः । वस्तुतस्तु वृक्षानेव प्रत्युदाहरणं युक्तम्, औ- जसोर्नकारकरणे सार्थकत्वम् । अर्थवदिति किमिति, ननु वृक्षशब्दस्यावयवत्वेन निरर्थकत्वात् । यथा 'व ऋ-क-षाः' वर्णाः प्रत्युदाहताः, तथा अकारीऽपि प्रत्युदाहर्तुं युज्यते तत् कथं नोदाहृतः ? सत्यम्, व्-ऋ- क्षाम् इत्युपलक्षणमकारोऽपि बोद्धव्य इति केचिन्मूर्खाः । अन्ये तु अकारोऽपि प्रत्युदाहत एव, तर्हि व ऋ-कषाणामिति वक्तुं युज्यते, नैवम् | 'आगमशासनमनित्यम्' (काला०प०२१) इति न न्वागम इत्याहुः । तन्न | अकारेऽपि प्रत्युदाहते 'अवयवसिद्धेः समुदायसिद्धिर्बलीयसी' ( व्या० परि० १०८) इति न्यायात् समुदायसम्म बेऽवयवानां लिङ्गसंज्ञायाः प्राप्तिरेव नास्तीति कुतः प्रत्युदाहरणसङ्गतिः ।
वस्तुतस्तु अकारस्य लिङ्ग्ङ्गसंज्ञा स्यादेव, र्वपूर्ववर्णस्मृतिसहकारेणान्त्यवर्णस्यार्थप्रतिपादकत्वेनाकारस्य निरर्थकत्वाभावान्नोदानोऽकार इति । यद् वा 'व्-ऋ - क्षाम्' इत्यत्राकारद्वयम् । एक उच्चारणार्थः, अन्यश्चाकारप्रदर्शनार्थः । तश्च समानदीर्घत्वे परलोपे च व्-ऋ-क्-षाम् इति दिक् ।