________________
कातन्त्रव्याकरणम्
(२/३/५७) इति वचनेन । तस्मात् तद् बोधयति - साक्षाद् विभक्तिकानामेव विभक्त्यन्तता (लिङ्ग्ङ्गत्वाभावः) न लुप्तविभक्तिकानामिति । न च 'हन्' इति धातुस्वरूपं प्रत्युदाहरणमुचितमिति वाच्यम्, लिङ्गसंज्ञायां सत्यामपि धातुसंज्ञायाः परत्वेन त्यादिभिराघ्रातत्वात् । तस्माल्लुप्तत्वादेव वर्जनमिति । तर्हि विभक्तिवर्जनं किमर्थम् ? ‘वृक्षान्' इत्यत्र नलोपः स्यादिति चेत्, नैवम् । नकारकरणवैयर्थ्यं स्यात् । अथ नकारस्यैतदेव फलं यद् विसर्गाभाव इति । नैवम्, यदा विसर्गाभाव एव फलं तदा “शसि सस्य च नः” (२/१/१६) इत्यत्र नकारग्रहणमपनीय 'सस्य च लोप:' इति कुर्यात्, ‘शस् अः इति वा । तस्मान्नकारकरणादेव नलोपो न भविष्यति, किं विभक्तिवर्जनेन ? नैवम् | "लिङ्गान्तनकारस्य ” (२/३/५६) इत्यस्य महाविराम एव विषयः, "वा विरामे (२| ३ |६२ ) इत्यस्य विरामग्रहणादिति वक्ष्यति । अतो वृक्षानानयेत्यादौ महाविरामाभावेन नकारकरणस्य चरितार्थत्वमस्ति । वृक्षानित्यत्र महाविरामे लोपः स्यादेवेति कुलचन्द्राशयः ।
,
१२
"1
तदसत्। यथा 'राजा गच्छति' इत्यादौ पदविरामेऽपि " लिङ्गान्तनकारस्य " (२/३/५६) इति लोपो भविष्यति । तथा 'वृक्षानानय' इत्यत्रापि लोपप्राप्तिरिति ।
हेमकरस्तु 'कुण्डे, वने' इति प्रत्युदाहृतवान् । अयमाशयः 'कुण्डे' इत्यादौ विभक्तिग्रहणाभावे “स्वरो हस्बो नपुंसके” (२/४/५२) इति ह्रस्वे 'कुण्डि, वनि' इत्यनिष्टं स्यात् । न चात्र एकारस्य लाक्षणिकत्वादिति वाच्यम्, वर्णग्रहणे तन्यायस्यानित्यत्वात् । यथा 'वृक्षांश्चरति' इत्यादौ लाक्षणिकनकारस्याप्यनुस्वारपूर्णः शकारः इति । तथाहि "हशषछान्तेजादीनां उ: " ( २ / ३ / ४६ ) इत्यत्र टीकायां वक्ष्यति - 'शकारग्रहणं ज्ञापयति लाक्षणिकपरिभाषेयमनित्या प्रायेण वर्णविधाविति' । ननु कथमेवमुच्यते, यावता विभक्त्यन्तभागस्य नपुंसकवृत्तित्वं नास्तीति कथं ह्रस्वप्रसङ्गः । यथा “नपुंसकात् स्यमोर्लोपः " (२/२/६) इत्यत्र लि स्य नपुंसकत्वं न तु विभक्त्यन्तस्य ? सत्यम्, प्रथमा विभक्तिर्लिङ्गार्थ एव क्रियते, अतः प्रथमान्तस्यापि क्लीबत्वमस्त्येव |
गोपीनाथस्तु-अभूवन्नित्यत्र विभक्तिवर्जनाभावे नलोपः स्यात् । न च नकारकरणसामथ्र्यदिव नलोपो न भविष्यतीति वाच्यम्, " अन उस् सिजभ्यस्त०" (३/४/३१) इत्यत्र विशेषणार्थत्वेन नकारस्य सार्थक्यात्, अन्यथा 'अ उस्' इति कृते 'पपाच' इत्यत्रापि उसादेशः स्यादिति । वृक्षानिति यदुदाहृतम्, तत् प्रथमकक्षायामित्युक्तवान् ।