________________
नामचतुष्टपाध्याये प्रवमो पातुपादः एतदनुसारेणैव चत्वार्युदाहरणानि । तत्र जाती-वृक्षः । क्रियायाम्-कुण्डम् । गुणेकुमारी । द्रव्ये-डित्थः । ननु
स्वार्थो द्रव्यं च लिङ्गं च संख्या कर्मादिरेव च।
अमी पञ्चैव लिङ्गास्त्रियः केषांचिदग्रिमाः।। इति पक्षद्वयं दृश्यते, तत्कथमपरकल्पना क्रियते दुर्गेण ? सत्यम् । नेयमपरकल्पना, किन्तु 'स्वार्थो द्रव्यं च ' इत्यादौ यः स्वार्थ : प्रवृत्तिनिमित्तस्वरूपोऽभिहितस्तस्यैव स्वार्थस्य प्रकर्षेण पुनश्चतुर्धा भेदो दर्शितः ।
ननु जाति-द्रव्य-गुण-क्रियेति श्लोकक्रमेणैवोदाहर्तुं युज्यते, तत्कथं व्यतिक्रमेण ? सत्यम्,
जाति-क्रिया-गुण-द्रव्यैः स्वभावाख्यानमीदृशम् ।
दण्डिनो मतमाश्रित्य दुर्गेणापीत्युदाहृतम् ।। इति । यद् वा आद्यत्रयं लिङ्गत्रयसूचनार्थम् । आधुनिकसंकेतविषयोऽप्यर्थशब्दवाच्य इति चतुर्थमुदाहरणमिति । यद् वा कारिकायां छन्दोऽनुरोधादुक्तम्, न पुनस्तावदेवं क्रमः, क्रमाक्रमयोरकिञ्चित्करत्वात् । अथ तर्हि राजपुरुषः' इत्युदाहरणत्रयं कथमुच्यते - "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" (अ० १/२/४५) इति परसूत्रम् । तत्र सूत्रे च प्रत्ययवर्जनात् कृत्तद्धितानां लिङ्गसंज्ञायामप्राप्तायां "कृत-तद्धित-समासाश्च" (अ०१/२/४६) इत्यपरसूत्रं कृतम् । समासस्यापि अप्रत्ययान्तत्वेन पूर्वेणैव सिध्यतीति यत् समासग्रहणं तन्नियमार्थम् ।तथाहि विशेष्य-विशेषणभावापन्नानामर्थवत्समुदायानां मध्ये समासस्यैव भवति, नान्यस्य । एतेन वाक्यं व्यावय॑ते । एवं सर्वमेकेनैव सूत्रेणास्माभिः साधितमिति परोदाहरणत्रयेण परमतं कटाक्षितमिति संक्षेपः। धातुविभक्तिवर्जमिति किमिति वृत्तिः ? समासनिविष्टत्वादेकदा प्रत्याख्यायते व्यावृत्तिः, प्रत्युदाहरणं तु क्रमेण बोद्धव्यम् ।
ननु धातुवर्जनं किमर्थम् ‘अहन्' इत्यत्र विभक्त्यन्तत्वेन लिङ्गसंज्ञाभावान्नलोपो न भविष्यति ? नैवम् । “न संबुद्धौ" (२/३/५७) इति वचनाल्लुप्तविभक्तिकानां लिङ्गसंज्ञां प्रति विभक्त्यन्तता नास्तीति ज्ञापितत्वात् । तथाहि 'हे राजन्!' इत्यत्रापि विभक्त्यन्तत्वेन लिङ्गसंज्ञाया अभावान्नलोपो न भविष्यति किं "न संबुद्धौ"