________________
कातन्वव्याकरणम्
नित्यत्वादनुषङ्गलोपे पुनरनुषङ्गसंयोगान्तयोर्लोपप्रसक्तौ सत्यां लुप्तनकारस्य ‘असिद्धं बहिरङ्गम्' (काला०प०४२) इत्यादिन्यायादसिद्धवद्भावान्नकारलोपो न भवति, अनुषङ्गत्वाभावात् । संयोगान्ततकारलोपस्तु भवत्येव विरोधाभावात् । ततो गोमन्कुलानि' इति स्थिते संयोगान्ततकारस्यालुप्तवद्भावादनुषङ्गलोपः कथन्न स्याच्चेत्, नैवम् । संयोगान्ततकारस्यालुप्तवद्भावत्वे प्राप्तेऽपि नकारलोपो लुप्तनकारस्यासिद्धवत्त्वादनुषङ्गत्वं नास्तीति । अतो नानुषङ्गलोप इति । अत एवाह – नसंयोगान्तयोरलुप्तवद्भावाद् इति नकारस्यालुप्तवत्त्वम् ‘असिद्धं बहिरङ्गमन्तरङ्गे' (काला० प० ४२) इति न्यायादसिद्धमित्यर्थः। संयोगान्तस्यालुप्तवत्त्वम् “न संयोगान्तौ०" (२/३/५८) इत्यादिनेत्याशयः। अत एव “न संयोगान्तयोः" इति द्विवचनोपन्यास इति तस्माद् 'गोमन्कुलानि' इति प्रयोगनिवृत्त्यर्थं गोमन्तीति प्रत्युदाहरणं युक्तमेतत् । एतेन मध्यभूतनकारस्यालुप्तवद्भावप्रत्याशया सिद्धान्ते टीकाविरोध इति यदुक्तं तन्निरस्तम् । मध्यभूतनकारं प्रत्यलुप्तवद्भावस्यासिद्धत्वेन व्याख्यातत्वादिति ।
यद् वा “विरामव्यञ्जनादिष्यनहुन्नहिवन्सीनां च" (२/३/४४) इत्यत्र वन्सेरुपादानं किमर्थम् ? यावता अनुषङ्गलोपेऽपि 'न संयोगान्तौ०' (२/३/५८) इत्यादिनाऽलुप्तवद्भावात् संयोगान्तलोप एव भविष्यति, तदा सकारस्याभावात् कस्य स्थाने दकारो भविष्यति । तस्मात् तत्र वन्सेरुपादानान्मध्यभूतनकारस्यालुप्तत्वं नास्ति | अतः संयोगान्तलोपो न भविष्यति, अनुषङ्गलोपस्तु भवत्येव ।। ___ यद् वा अनुषङ्गसंज्ञाया गुरुकरणेनान्वर्थबलात् संयोगान्तलोपं बाधित्वा प्रागेवानुषङ्गलोपः । तथाहि कार्यान्तरस्य प्रसक्तावपि 'अनुषज्यते इत्यनुषङ्गः' इति केचित् । तन्न, टीकाकृतैव दूषितत्वात् । अर्थोऽभिधेयमिति । ननु कथम् अभिधेयमिति नपुंसकम् अर्थशब्दसामानाधिकरण्यात् पुंसा निर्देशो युज्यते वाच्यलिङ्गत्वादिति ? सत्यम्, अभिधेयं प्रयुज्य सामान्यत्वात् क्लीबत्वे पश्चादर्थपदेन सह संबन्धः ततश्चाभिधेयं घटपटादि अर्थशब्दवाच्यमित्यर्थः । यथा क्रिया रा.व्यमुच्यते इति । सामान्येन साध्यमित्युक्त्वा पश्चात् क्रियेति संबन्धः ।
___ यद् वा अर्थशब्दोऽयमभिधेयं वक्तीत्यर्थ: । वृक्ष इत्यादि । शब्दार्थाश्चत्वारः संभवन्तीति जाति-द्रव्य-गुण-क्रिया इति। तथा च टीकायाम् -
शब्दैरेभिः प्रतीयन्ते जाति-द्रव्य-गुण-क्रियाः। चातुर्विध्यादमीषां तु शब्द उक्तश्चतुर्विधः।।