________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
इत्यत्र नास्ति लिङ्गसंज्ञावसरः 'राजन्'- भागस्य निरर्थकत्वात् । न च 'प्रपाचकः' इत्यादौ प्र-शब्देऽभिव्याप्तिमत्त्वं नास्तीति वाच्यम् । यावता पचिना प्रतिपादितः प्रकृष्टपचनस्वरूपे योऽर्थस्तदुपस्थापकताभिव्याप्तिमत्त्वं प्रावच्छेदेनैव संभवति । जहत्स्वार्थवादिनां मीमांसकानां मते पुनः 'राजपुरुषः' इत्यादिवत् 'प्रपाचकः ' इत्यादौ समुदाये शक्तिरस्त्येवेति संक्षेपः ।
,
न ह्यर्थवदित्यत्र परत्वात् संयोगान्तलोपः कथन्न स्यात् । न च परत्वं न संगच्छते, उभयोः सावकाशत्वाभावादिति वाच्यम्, 'विदुषः' इत्यादावनुषङ्गलोपस्य 'पुम्भ्याम्' इत्यादौ संयोगान्तलोपस्य च सावकाशत्वात् । नैवम्, नित्यत्वादुनषङ्गलोप एव प्रवर्तते । नित्यत्वं च कृताकृतप्रसङ्गित्वेन । तथाहि संयोगान्तलोपे कृते "न संयोगान्ती” (२/३/५८) इत्यादिनाऽलुप्तवद्भावादनुषङ्गलोपः प्राप्नोति अकृते तु सुतरामेव प्राप्नोति, उभयपक्षेऽपि "विरामव्यञ्जनादी० (२/३/६४) इत्यतिदेशबलादिति बोध्यम् । अत एव " व्यञ्जनान्नोऽनुषङ्ग” (२/१/१२ ) इत्यस्य टीकायां 'संयोगान्तलोपस्यालुप्तवद्भावाच्च नित्योऽनुषङ्गलोपः' इत्युक्तम् । अथ तर्हि संयोगान्तलोपस्यापि नित्यत्वमनुषङ्गलोपे कृते नकारस्यालुप्तवद्भावात् संयोगान्तलोपः प्रवर्तते । अकृतेऽपि सुतरामेवेति कृताकृतप्रसङ्गित्वात् ? सत्यम् । तत्र विरामव्यञ्जनादिसान्निध्यात् संयोगान्तलोपसाहचर्याद् अन्तर्भूतनकारस्यैव अलुप्तवद्भाव इति कुतो मध्यभूतनकारस्यालुप्तवद्भावप्रसङ्गः ।
""
.
अथ तर्हि "धुट्स्वराद् घुटि नुः " ( २/२/११ ) इत्यत्र गोमन्तीति प्रत्युदाहरणे न्वागमे कृते नकारद्वयस्य संयुक्तसजातीयानामनेकस्याप्युच्चारणं प्रति भेदो नास्तीति न्यायाद् दूषणानुपपत्तौ किमर्थं प्रत्युदाहरणमिति पूर्वपक्षे 'गोमत्कुलानि ' इत्यत्र समासे प्रत्ययलोपलक्षणन्यायेन न्वागमे सति " व्यञ्जनान्तस्य यत्सुभोः” (२/५/४) इत्यतिदेशबलादनुषङ्गलोपे “न संयोगान्तौ ० ' (२/३/५८) इत्यादिना मध्यभूतनकारस्यालुप्तवद्भावात् पुनरनुषङ्गलोपो न भवतीति टीकाकृतसिद्धान्तविरोधः । तथा च टीकायां 'ननु गोमन्तीति कथं प्रत्युदाहरणम्' श्रुतेरभेदात् । नैवम् | 'गोमत्कुलानि' इत्यत्र समासे नलोपे पुनर्नलोपो न स्यादिति “ व्यञ्जनान्तस्य यत्सुभोः” (२/५/४) इति जातौ चरितार्थत्वाद् व्यक्तौ शास्त्रातिदेशपक्षे च न संयोगान्तयोरलुप्तवद्भावात् पुनर्नलोपो न स्यादनुषङ्गत्वाभावादिति, नैवम् । टीकार्थापरिज्ञानाद् विरोधः शङ्क्यते । न-संयोगान्तयोरलुप्तवद्भावादिति टीकापङ्क्तेरयमाशयः । तथाहि 'गोमत्कुलानि ' इत्यत्र