SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् इति तत्र सिद्धान्तितम् | यथा 'कौण्डिन्यवर्जितेभ्यो ब्राह्मणेभ्यो दधि दीयताम्' इत्युक्ते नहि ब्राह्मणतया कौण्डिन्यो वर्ज्यते, किन्तर्हि दधिदानकाले । तद्वदिहाप्यदोषः । ८ , यद् वा वर्जशब्दोऽयमत्यन्ताभाववचनः चेत् तर्हि धातुविभक्तिवर्जनं व्यर्थम्, धातुविभक्त्योरपि धातुविभक्त्यन्ताभावस्य सत्त्वेन तयोर्लिङ्गसंज्ञाप्रसङ्गात् । नहि धातुविभक्त्योर्धातुविभक्ती वर्तेते ? सत्यम् । जातिरेव पदार्थ इति मते धातुविभक्तिशब्देन धातुविभक्तित्वमुच्यते । ततश्च धातुत्व- विभक्तित्वात्यन्ताभाववद् यदर्थवत् तल्लिङ्गमिति । यद् वा वर्जशब्दोऽयमन्योऽन्याभाववचनः, ततश्च धातुविभक्त्योरन्योन्याभाववद् यदर्थवत् तल्लिङ्गमिति सर्वं सुस्थम् | अर्थवदिति वाच्य - वाचकलक्षणसंबन्धे षष्ठी, अर्थोऽस्यास्तीत्यर्थवत्, ततश्च येनार्थ उच्यते प्रतिपाद्यते तद् अर्थवत् । एतेन अर्थप्रतिपादकत्वमर्थवत्त्वमिति अर्थवल्लक्षणमायातम् । अथ तर्हि धूमशब्दोच्चारणादानुमानिकवह्निप्रतीतौ धूमशब्दस्यार्थवत्तया वह्नयर्थे लिङ्गसञ्ज्ञा कथन्न स्यात् । नहि वह्न्यर्थे धूमशब्दस्य लिङ्ग्ङ्गत्वमभिधीयत इति चेत् - वृत्तावर्थप्रतिपादकत्वमर्थवत्त्वमिति ब्रूमः । वृत्तिश्च शक्ति - लक्षणान्यतररूपा । नहि शक्त्या लक्षणया वा धूमशब्देन वह्निः प्रतीयते, अपि त्वनुमानेनैव । ननु तथाप्यजहत्स्वार्थवादिनां नैयायिकानां मते 'राजपुरुष' इत्यादीनां लिङ्गसंज्ञा कथन्न स्यात्, ते ह्यवयवशक्त्या पदार्थोपस्थितौ सत्यामप्यन्वयबोधात् समुदायेऽन्यां शक्तिं न कल्पयन्ति इति चेदुच्यते - वृत्तिप्रतिपाद्यार्थोपस्थापकत्वमर्थवत्त्वम् । उपस्थापकल्वं च तदुपस्थितिहेतुबुद्धिजनकत्वम्, ततश्च वृत्तिप्रतिपादितो राजत्व- पुरुषत्वविशिष्टो योऽर्थः संबन्धित्वेन तदुपस्थितिहेतुबुद्धिजनकत्वं राजपुरुषसमुदायस्यापि घटते । तथा 'शशविषाणम्' इत्यादौ वृत्तिप्रतिपादितः शशत्व विषाणत्वविशिष्टो योऽर्थः शशे विषाणस्य वस्तुनः सत्ताविरहेऽपि योग्यताभ्रमेण प्रतीयमानसंबन्धितया तदुपस्थितिहेतुबुद्धिजनकत्वं शशविषाणादिसमुदायभागस्याप्यस्त्येव । एतेन संबन्धित्वाभावात् शशस्य विषाणमिति कथं षष्ठीति देश्यमपास्तम् ।' राजन्' इति निरर्थकानुकरणेऽपि वृत्तेरभावाद् अर्धवद्-ग्रहणस्य व्यावृत्तिः सुतरामेव संगच्छत इत्यग्रे व्याख्यास्यामः । अथ यदि वृत्तिप्रतिपाद्यार्थोपस्थापकत्वमर्थवत्त्वम् इत्युच्यते तदा ‘शृणु राजन्’ इत्यत्रापि अवयववृत्त्युपस्थाप्यार्थस्य समुदायेनोपस्थापितत्वादर्थवत्तया लिङ्गसंज्ञा कथन्न स्यात् चेत् ? वृत्तिप्रतिपाद्यार्थोपस्थापकताभिव्याप्तिमत्त्वमिति ब्रूमः । ततः ‘शृणु राजन्'
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy