________________
नामचतुष्टयाध्याये प्रथमो धातुपादः १६) इत्यादिनाडागमः । “अन् विकरणः कर्तरि" (३/२/३२) इति अदादित्वादनो लुक् “व्यअनाद् दिस्योः" (३/२/४७) इति लोपः । वृक्षानिति । “शसि सस्य च नः" (२/१/१६)।
नन्वनर्थकानामप्रयोगादर्थवतामेव लिङ्गसंज्ञा भविष्यति किमर्थवद्ग्रहणेनेत्याहअर्थवदित्यादि । अर्थवतां शब्दानां प्रयोगे तदेकदेशानामनर्थकानामपि प्रयोगाल्लिङ्गसंज्ञा प्रसज्यते । ततो 'व्-ऋ-क्-ष्' इत्यादिष्ववयवकृतो विरामोऽस्तीति “वा विरामे" (२/३/६२) इत्यादिना प्रथमादिकार्यं स्यात् । किं च अनुकार्यानुकरणयोर्भेदस्याविवक्षया उन्मत्तवचनस्य मा भूद् इत्याह - राजन् इति । अथ लाघवार्थमिन्प्रत्ययः कथन्न कृत इति न देश्यम्, तस्य क्रियापदार्थकादेव दर्शनात् । अर्थनम् अर्थः। भावे घञ्, सोऽस्यास्तीति अर्थी वाचक उच्यते । तथा च अर्थादनागते इति घोषयन्ति । स चायं वन्तुर्नित्यशब्दार्थसंबन्धवादिनां मते नित्ययोगे, अन्येषां तु मते संसङ्ग एवेति ।। ८०। [क० च०]
श्रीवियाभूषणाचार्यसुषेणेन विनिर्मितः।
आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ।। प्रथमं तावत् सूचीकटाहन्यायेन सन्धिप्रकरणेन वर्णकार्यमुक्त्वा पदकार्ये कर्तव्ये आख्यातात् प्राक् चतुष्टयप्रकरणमुच्यते। तत्रेयं युक्तिः- वाक्यं हि क्रियाप्रधानं क्रियाया विशेष्यत्वात् कारकं च विशेषणं ततश्च नागृहीतविशेषणा बुद्धिर्विशेष्ये चोपजायते, विशेषणज्ञानमन्तरेण विशेष्यज्ञानं न भवतीत्यतस्तत्प्रतिपादकं चतुष्टयप्रकरणमेव प्रागुच्यत इति सङ्गतिः ।
श्रीधातु० । धातुविभक्तिवर्जमिति । ननु वर्जनं हि परित्यागः, न ह्यर्थवत्तया धातुविभक्ती परित्यज्येते, तयोरप्यर्थवत्त्वात् । किन्तर्हि लिङ्गसंज्ञाप्राप्तिकाले, ततश्च निषेधस्य प्राप्तिपूर्वकत्वाद् ‘अर्थवल्लिङ्गं धातुविभक्तिवर्जमिति' निर्देशो युज्यते ? सत्यम् ।लिङ्गसंज्ञाप्राप्तिदशायां धातुविभक्ती वर्जयिष्यतीति मनसि कृत्वा तत्पूर्वदशायामपि योग्यतया धातुविभक्तिवर्जमित्युच्यते, क्रियायोग्यतयैव कृदन्तस्य प्रयोगात् । यथा अपचन्नपि सूपकारः पचनयोग्यतया पाचक उच्यते । अत एव “स्वरोऽवर्णवों नामी" (१/१/७) इत्यत्र कुलचन्द्रोऽप्युक्तवान् - कथमेकेन स्वरेणान्यः स्वर ः परित्यज्यत