________________
कातन्त्रव्याकरणम्
यद्येवम् – ‘शशविषाणम्, बन्ध्यासुतः' इत्येवमादीनामभिधेयस्याभावादप्रसङ्गो लिङ्ग्ङ्गसंज्ञाया एव । तदयुक्तम् । न खल्वेवं विज्ञायते - अर्थोऽस्यास्तीति वन्तुः । सत्तासमाविष्टमभिधेयं यस्यास्तीति, अपि त्वर्थोऽस्यास्तीति अभिधेयसत्तासमाविष्टमभिधेयं यस्यास्तीति । ईदृशञ्चाभिधेयं सर्वेषामेव विद्यते यतो भूतं भविष्यदत्यन्तासद् वा वस्तु न प्रच्यवतेऽभिधेयसत्तायाः कुत इति चेत्, सर्वस्यैवाभिधीयमानत्वात् । न हि सर्वथा अविद्यमानाभिधेयः शब्दो लोके प्रयोगमर्हतीति । तेन यत्प्रयोगे यत्प्रतीयते स तस्यार्थः । तथा चोक्तम्
,
शब्देनोच्चार्यमाणेन यद् वस्तु प्रतिपद्यते ।
तस्य शब्दस्य तद् वस्तु जायतामर्थसंज्ञया ।। इति । धातुविभक्तिवर्जमिति । अथ कथमिह समासः । किं धातुश्च विभक्तिश्चेति द्वन्द्वः, आहोस्विद् धातोर्विभक्तिरिति तत्पुरुषः ? सत्यम् । द्वन्द्व एवायं न तत्पुरुषः । तत्पुरुषे हि त्यादिवर्जमिति कुर्यात् । न हि त्यादिमन्तरेण धातोरन्या विभक्तिरस्तीति । न चैवं वर्तमानाया एव वर्जनं स्यादित्याशङ्कनीयम् | त्यादिशब्दस्य स्यामहिपर्यन्ताख्यातदशविभक्तिषु प्रख्यातत्वात् । यदि च त्यादिशब्दो वर्तमानायामेव वर्तते, तदा स्यसंहितानि त्यादीनि भविष्यन्तीति सिद्धे स्यति-स्यतः-स्यन्तीत्यादि किमित्याचार्यः पर्यजीगणत् । तद्धि परिगणनं विभक्त्यन्तरस्य स्यसंहिताप्रसङ्गप्रतिषेधार्थम् । स च त्यादिशब्देनैव केवलवर्तमानाविषयेण सिद्ध इत्यलं परिगणनयेति । धातुविभक्ती वर्जयतीति प्राप्ये "कर्मण्यण्" (४/३/१) ।
अर्थवदिति सामान्यरूपत्वान्नपुंसकम् । लिङ्गसंज्ञमिति । लिङ्गं संज्ञा यस्येति विग्रहे ? ' गोरप्रधानस्यान्त्यस्य स्त्रियामादादीनाञ्च इति ह्रस्वः । अन्वर्थसंज्ञा चेयम् - लिङ्ग्यते चिह्वयतेऽनेनैकदेशेनार्थो गम्यते इति लिङ्गम् अविस्पष्टार्थप्रतिपत्तिहेतुरुच्यते । अत एव वाक्यस्यार्थवतोऽपि लिङ्गसंज्ञा न भवति, तस्य विवक्षितसम्पूर्णस्पष्टार्थप्रतिपादकल्वात् । तथा कृत्-तद्धित-समासानामपि अर्थवत्त्वाल्लिङ्गसंज्ञा सिद्धा इत्युदाहरतिराजपुरुष इत्यादि । अहन् इति " हनेर्ह्यस्तन्यां दिः सिर्वा, “अड् धात्वादिः " (३/८/
१. गोस्त्रीप्रत्ययस्योपसर्जनस्यान्त्यस्य ह्रस्वः ( कात० परि०- नाम० ८१ ) ।