________________
नामचतुष्टयाध्याये प्रथमो धातुपादः प्रतिषेधो भविष्यति कथमहन्निति नलोपप्रसङ्गः ? नैतदेवम् । हन्तिरयमविभक्तिप्रकृतिः कथं विभक्त्यन्तो भवितुमर्हति यस्य विभक्तिरन्तोऽवयवः स समूहो विभक्त्यन्तः, न च हन्तेर्विभक्तिरन्तोऽवयवो विभक्तिवर्णानामेवान्तर्वर्तिनां विभक्तिग्रहणेन विभक्तिकार्यप्रतिषेधः । यथा वृक्षान्, लिङ्गान्तत्वाभावान्नलोपो न भवति । राजप्रभृतीनामपि लिङ्गान्तत्वादेव नलोपविधिः । समूहश्च विभक्तिप्रत्ययः प्रकृतिसङ्गतस्तदर्थविशिष्टमेवार्थं गमयति, प्रकृतिभागेऽतिशयत्वमाधाय निवृत्त इति । ___तथा च "न संबुद्धौ” (२/३/५७) इति वचनं विधीयते कथं 'वृत्रहा, अर्धभाक् ' क्विबादिलोपे प्रकृतिरेवार्थसंबन्धात् प्रधानं तदर्थमभिधत्तेऽनाख्यातत्वाद् गौणोऽत्र क्रियार्थ इति न प्रतिषेधः, “आ धातोरघुदस्वरे" (२/२/५५) इति ज्ञापकाद् वा । ननु अनर्थकानामप्रयोगादर्थवद्ग्रहणमनर्थकम् । नैवम्, अर्थवतां प्रयोगे तदेकदेशानामनर्थकानामस्ति प्रसङ्गः । यथा 'वृक्षः' इत्यत्र व्-क्र-क्-षामिति अवयवविरतिरस्तीति । विरामे धुटां प्रथमतृतीयौ स्याताम्, वनं धनमिति नलोपश्च । तथा राजनित्युन्मत्तवचनस्य चानुकृतस्यानुकार्यानुकरणयोर्भेदस्याविवक्षायामिति । अन्ये पुनरन्यथा चोदयन्ति परिहरन्ति च – 'अर्थवन्तो वर्णाः' इति ।
धातु-लिङ्ग- निपातानां वर्णानाममर्थदर्शनात् । तिलांशे च तिलौघे च न तैलं सैकते यतः।। नायं हेतुरिहैकान्तो गृहयन्त्रादिदर्शनात् ।
अनर्थकावयवानां समुदायोऽर्थवानिति ।। ८०। [वि० प०]
नमः परमदेवतायै । धातु० । अर्थोऽभिधेयमिति । अभिधेय-निवृत्ति-प्रयोजन-धनेषु बहुष्वर्थेषु यद्यप्यर्थशब्दो वर्तते, तथाप्यभिधेयवचन एव गृह्यते । कथमिति चेत्, एवं मन्यते-निवृत्त्यादयो ह्यर्थाः परस्परासंस्पर्शिनस्ततस्तेषामन्यतमस्य ग्रहणे सत्यन्येषामसंग्रह एव स्यादतस्तदवस्थमेवानवस्थादेश्यमापद्यते । यावदयमर्थो गृह्यते तावदेष कथन्न गृह्यते इति । अभिधेयवचने त्वर्थशब्दे गृह्यमाणे निवृत्त्यादयोऽप्यर्थाः संग्रहीतुं शक्यन्त एवेति तेषामप्यभिधेय एवान्तर्भावात् । तथाहि ‘मशकार्थोऽयं धूमः' - मशकनिवृत्तिरभिधीयते । निवृत्तिरभिधेयत्वेन निर्दिश्यते । तथा 'केनार्थेनागतोऽसि' – केन प्रयोजनेनेत्यभिधीयते । ‘अर्थवानयम्' – धनवानित्यभिधीयते ।