________________
कातन्त्रव्याकरणम्
हि तद्भावाभावौ । यथैव हि दण्डादीनां ग्रहणानुविधायि विशिष्टं ज्ञानम् एवमग्रहणानुविधायि दिगादीनां विशिष्टं ज्ञानम् । तस्माद् ग्रहणाग्रहणयोर्यदवच्छेदस्तद्विशेषणम् । एवं चागृहीत एव स्वार्थः सविशेषणं द्रव्यं सहशब्देन प्रतिपादयतीति ।
अन्यः पुनराह- नेह सामान्यविशेषविषयः शब्दः किन्तु प्राणिनामवबोधरूपं प्रतिभासमात्रं जनयति स तस्यार्थः, यस्तु सामान्यरूपयुक्तस्य विशेषवतोऽर्थस्य बुद्धौ प्रतिभासः सामान्यरूपेण प्रयोगस्य पुनः पुनस्तत्रैव दर्शनाभ्यासात्, न पुनः परमार्थतोऽप्याकारग्रहविशिष्टरूपः शब्दस्य विषयः । उक्तञ्च -
अभ्यासात् प्रतिभाहेतुः सर्वः शब्दोऽपरैः स्मृतः।
बालानां च तिरश्चां तद् यथार्थप्रतिपत्तिषु ।। (वा० प० २/११७) ‘अग्निष्टोमेन यजेत' इति प्रवृत्त्यनुकूला प्रतिभा उपजायते, 'ब्राह्मणो न हन्तव्यः' इति निवृत्त्यनुकूला ।
ननु विभक्तिमन्तरेण वृक्षादीनां कथमर्थप्रतिपादनम् । न हि ते केवला: प्रयोगमर्हन्ति ? सत्यम् । अन्वयव्यतिरेकाभ्यामर्थभेदप्रतिपत्तिः प्रकृतिसाम्येऽपि प्रत्ययभेदात् संख्या-कारकभेदप्रतिपत्तिः । तद् यथा - वृक्षं पश्याते, वृक्षौ पश्यति, वृक्षणाभिहतो वृक्षाभ्यामभिहत इति प्रत्ययसाम्येऽपि प्रकृतिभेदादर्थभेदप्रतिपत्तिः । तद् यथा- वृक्षं पश्यति, चन्द्रं पश्यतीति कथं वाक्यस्य लिङ्गस्य न भवति । साध्यं साधनं च येन प्रत्याय्येत तदेकं वाक्यम्, न तु बहुभेदकं तदेव प्रवर्तकम्, विवक्षितार्थावेदनाद् वाक्याच्चापोद्धृत्य पदं तदनुकूलमन्वाख्यायेत । तथा च लिङ्ग्यतेऽनेनार्थ इति कृत्वा लिङ्गमन्वर्थमुच्यते । असंज्ञानत्वात् पूर्वपदातिशयकृतं खल्वन्त्यपदं वाक्यम्, तदेव हि वाक्यार्थं गमयति । पूर्वपदार्थविशिष्टः खल्वन्त्यपदार्थो वाक्यार्थः, न पुनरर्थान्तरापोहः । न ह्ययं पन्थाः मुनं गच्छतीत्युक्ते कस्यचिदर्थस्यापोहो गम्यते । अन्त्यपदं च विभक्त्यन्तं तत् कथं लिङ्गसंज्ञम्भवति वाक्यसंस्कारपक्षेऽपीति ।
अपर आह - वाक्यस्य क्रियाप्रधानत्वात् क्रियायाश्चासत्त्वभूताया एकत्वादिसंबन्धाभावान्नैव विभक्तिमिति नलोपोऽपि न स्यात्, धातुवर्जनादेव वृत्रहन्निति | समासस्य तु लिङ्गसंज्ञा न विहन्यते, एकार्थत्वादवयवविभक्तयोऽपि प्रागेव लुप्ता इति । धातुविभक्तिवर्जम् इत्यादि । ननु धातुवर्जमनर्थकं विभक्तिवर्जमिति विभक्त्यन्तस्य