________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
एतेन सत्तैव धात्वर्थश्चेति सर्वशब्देन प्रतिपद्यते । तस्मात् सत्ता नित्या सदसद्भ्यामवाच्यरूपा प्रथमत एव विवर्तमाना महानिति बुद्धिरुत्पद्यते, सत्तामात्रत्वादात्मनः। सैवात्मा, सैव नित्या, अन्यस्य सर्वस्यैव परिणामित्वात् । वैशेषिकाणामपरसत्तापि द्रव्यगुणकर्मणां सम्प्रत्ययहेतुर्विशेषाख्या नित्या इति ।
३
अन्यः पुनरन्यथैव प्रतिपद्यते - स्वार्थद्रव्यलक्षणो द्विक इति । नहि लिङ्गसंख्यादयो विभक्तिमन्तरेण प्रतिपद्यन्ते । तत्र स्वार्थो विशेषणं द्रव्यं विशेष्यम् । विशेषणेन हि लिङ्गं विशेष्यं नियम्यते, तत्पुनः स्वरूपजातिगुणक्रियाद्रव्यलक्षणम् । अत्र स्वरूपं जात्यात्मकमसाधारणरूपम् । यथा डित्थस्य डित्थत्वं जातिः सामान्यम्, यथा गवां गोत्वम् । गुणः सहजो धर्मः, यथा पटस्य शुक्लं रूपम् । क्रिया धात्वर्थः, यथा गन्तुर्गतिः । द्रव्यं गुणाधिकरणम्, यथा दण्डो दण्डिनः । एतैः खलु विशेषणभूतैरेतेषु विशेष्यभूतेषु लिङ्गस्य प्रतिनियमः । ननु स्वरूपमनन्वितमस्तु नाम अनन्वितायाः संज्ञाया नियामकम् । गुणक्रियाद्रव्याणि पुनरनन्वितानि प्रतिविषयं व्यावृत्तस्वभावानि कथमन्वितानां संज्ञानां नियामकानि ? नैष दोषः, गुणक्रियाद्रव्याश्रितानां सामान्यानामनन्वितत्वात् |
ननु यदि सामान्यानामनन्वयस्तान्येव तर्हि लिङ्गं नियमयन्तु कथं चतुष्टयी शब्दानां प्रवृत्तिः ? सत्यम्, द्विविधैव शब्दानां प्रवृत्तिः - अन्वितानां जातिः, अनन्वितानां स्वरूपम् | यदि नाम गुणादिसमवायिनां सामान्यानां शब्दनियामकत्वाद् गुणादीनामपि शब्दनियामकत्वमुपचर्यते, कथं पुनरेतदुभयमभिधत्ते न तावद् युगपद् विशेषणविशेष्यभावात् । न हि युगपदुपलभ्यमानयोर्विशेषणविशेष्यभावो गृह्यते गृहीतेन हि विशेषणेनेन्द्रियसहकारिणा विशेष्यं प्रतिपाद्यते, नापि क्रमशो विशेषणविशेष्यप्रतिपत्तिः समकालसङ्केतस्मृतितः शब्दश्रुतेरुपरमाद् नहि ज्ञानयोर्विनश्यतोः सहावस्थानं सम्भवति, नित्यत्वप्रसङ्गात् ।
क एवमाह – उभयमभिधत्ते इति न पुनरुभयमर्थः स्वार्थविशिष्टं द्रव्यं तावच्छब्दतः प्रतिभासत एव । तत्र हि शब्दानां नियोगः, नहि नियामकमन्तरेण केवले स्वार्थे द्रव्ये वा शब्दानां प्रतिनियमः शक्योऽभिधातुम् | स्वार्थस्तु नियामकत्वाद् विशेष्यज्ञानहेतुत्वाच्चानभिधेयोऽप्यभिधीयते स हि शब्दानां प्रवृत्ति प्रयोजयति ।
ननु कथमगृहीतः स्वार्थः शब्दार्थं विशेषयति, न हि दण्डादिरगृहीतः पुरुषविशेषको भवति ? नैष दोष:, दिगादीनामगृहीतानामपि वृक्षादिविशेषणभावात् समानौ