SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् प्रयोजनेनेति । अर्थवानयम्, धनवानयमिति । प्रतीयमानं वस्तुमात्रमर्थः । 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः' (मी० द० १/१/५), ततश्च नित्ययोगे वन्तुरेव, सामान्यत्वान्नपुंसकलिङ्गम् । स पुनश्चतुर्धा भिद्यते - जातिव्यं गुणः क्रिया चेति । तथा चाह - शब्दैरेभिः प्रतीयन्ते जातिद्रव्यगुणक्रियाः। चातुर्विध्यादमीषां तु शब्द उक्तश्चतुर्विधः।। कश्चिद् आह - जातिरेव शब्दार्थ इति। न हि निराधारा जातिरुपलभ्यते इति द्रव्ये बुद्धिरुत्पद्यते साहचर्यात् । यथा वृक्षादयो न स्वतो वृक्षा नाप्यवृक्षाः, वृक्षत्वादिजातियोगाद् वृक्षाः । एवं गुणोऽपि न स्वतः शुक्लो नाप्यशुक्लः शुक्लत्वजातियोगात् तदाधारतया गुणविशेषः शुक्ल इति शुक्लः पट इति तेनैव शुक्लत्वबलेन द्रव्ये समवेते शुक्लगुणे समवायाद् बुद्धिरिति । तथा पटेन संयुक्तेऽभ्रकादिद्रव्ये समवेते शुक्लगुणे समवायात् शुक्लत्वबलादेव शुक्ल: पट इति । डित्त्यादिशब्दानामप्येकद्रव्यसमवायिनां बाल्याद्यबस्थाभेदात् सामान्यमस्तीति डित्थ एवायमिति बुद्धिरुत्पद्यते । तथा चित्रादिषु डित्थोऽयं लिख्यते तथा क्रियास्वपि अधिश्रयणादिषु कर्मसु समवेतैरधिश्रयणत्वादिसामान्यैस्तेष्वेव कर्मसु प्रत्येकं समवायाद् एकार्थसमवायि पचतिक्रियात्वं पचतिशब्दवाच्यमिति, लिङ्गवचनादयस्तु तदाश्रयसम्बन्धादिति । अन्यः पुनराह - द्रव्यमेव शब्दार्थ इति । जात्यादयस्तु द्रव्यसंसर्गिणोऽशब्दवाच्या अपि सन्निधानबलेनैव तस्य भेदकाः । यथा यत्रेयं पताका तद् देवदत्तस्य गृहमिति उदयविनाशवदपि संसर्गिबलात्तदेवेदमिति बुद्धिरुत्पद्यते असर्वद्रव्यनाशाच्च गवादिशब्देनैव स्वाभिधेयशून्य इति । तथा च स एवायं गौः, तदेवेदं कार्षापणम्, तानेव शालीन् भुङ्क्ते एकत्वाध्यवसायानाताविव द्रव्येऽपि नित्यत्वमेव शब्दार्थस्य । अन्यः पुनराह – उभयमेवैतत् शब्दार्थ इति । कदाचिज्जातिः प्रधानं द्रव्यं गुणभूतं कदाचिद् वा द्रव्यं प्रधानं जातिर्गुणभूतेति । अपरः पुनराह – सत्तैव शब्दार्थ इति, सम्बन्धिभेदात् सत्तैव भियमाना गवादिषु। जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः।। (वा०प० ३/१/३३) इति ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy