________________
॥ श्रीः ॥
कातन्त्रव्याकरणम्
अथ द्वितीये नामचतुष्टयाध्याये प्रथमो धातुपादः
८०. धातुविभक्तिवर्जमर्थवल्लिङ्गम् [२/१/१] [ सूत्रार्थ ]
भू-आदि धातुओं तथा सि- आदि विभक्तियों से भिन्न अर्थवान् शब्द की लिङ्ग संज्ञा होती है || ८० |
[दु०बृ० ]
अर्थोऽभिधेयम् । धातुविभक्तिवर्जमर्थवल्लिङ्गसंज्ञं भवति । वृक्षः, कुण्डम्, कुमारी, डित्थः, राजपुरुषः, औपगवः, कारकः । धातुविभक्तिवर्जमिति किम् ? अहन्, वृक्षान् । अर्थवदिति किम् ? वृक्ष इति व्-ऋ - क् षामेकैकशो मा भूत्, राजनित्युन्मत्तवचनस्य च । लिङ्गप्रदेशाः " लिङ्गान्तनकारस्य " (२/३/५६) इत्येवमादयः । । ८० । [दु०टी०]
धातु० । भूप्रभृतयो धातवः, विभक्तयः स्यादयस्त्यादयश्च । तसादीनां तु सर्वनामकार्यं प्रत्येव विभक्तिसंज्ञेति । ततस्तत्रेत्याचष्टे ततयति, तत्रयति । " इनि लिङ्गस्य०" (३/२/१२ ) इत्यादिभिर्भवति । धातुश्च विभक्तिश्चेति द्वन्द्वः, न धातोर्विभक्तिरिति तत्पुरुषः, त्यादिवर्जमित्यकरणात् । त्यादयः स्यामहिपर्यन्ता एव रूढित : “स्यसंहितानि त्यादीनि भविष्यन्ती” (३/१/३२) इति स्वति-स्यतस्- स्यन्तीत्यादिपरिगणनाद् वा । अर्थोऽभिधेयमिति । अर्थशब्दोऽभिधेयनिवृत्तिप्रयोजनधनवचनो यद्यपि, तथाप्यभिधेयवचन एव गृह्यते व्याप्तिन्यायात्, अभिधेये हि निवृत्त्यादीनामन्तर्भावात् : तद् यथा - मशकार्थोऽयं धूमः मशकनिवृत्तिरभिधीयते । केनार्थेनागतोऽसि, केन