________________
कातन्त्रप्याकरणम् कथमिदमुच्यते परत्र स्य-साहित्यशङ्कानिराकरणेनैव परिगणनस्य साफल्यात् ? सत्यम् । 'विभक्तिसंज्ञा विज्ञेया वक्ष्यन्ते' (२।६।२४) इति ज्ञापकात् परत्र स्यसाहित्यशङ्का न भविष्यति, न चानियमस्य साहित्यशब्दस्योभयत्र निपातितत्वात् 'वक्ष्यन्ते' इति ज्ञापकमेव न भविष्यतीति वाच्यम्, 'वक्ष्यन्ते' इत्यत्र स्यशब्दस्य पूर्वस्मिन् दृष्टत्वाद् दृष्टपरिकल्पनां विहाय अदृष्टपरिकल्पने प्रमाणाभावात् । 'स्यपराणि' इत्यकरणादिति केचित् । तन्न, स्यपराणीति तत्पुरुषस्यापि शक्यत्वात् । प्राप्ये "कर्मण्यण" (४/३/१) इति । यद्यपि प्राप्ये कर्मण्यविधानादश् नास्तीति । यथा 'आदित्यं पश्यति, हिमवन्तं शृणोति' इति, तथाप्यभिधानात् क्वचिद् भवत्यपीति । सामान्यरूपत्वादिति । रूप्यते विशिष्यतेऽनेनेति रूपं विशेषणम् । अध्याहार्यसामान्यशब्दस्य विशेषणत्वादित्यर्थः । एतेन यद् यदर्थवत् सामान्यं तत्तदेव लिङ्गमिति । एतेन 'च: समुच्चयं वक्ति' इत्यादावनुकरणेऽपि लिङ्गसंज्ञेति ।
यद् वा यथा एक्त्वादीनामनिश्चितत्वेऽपि उत्सर्गसिद्धमेकवचनं प्रवर्तते, तथा नपुंसकस्यापि उत्सर्गस्वीकारेण न दोषः । गोरप्रधानस्येत्यादि । ननु कथमिदमुच्यते "स्वरो हस्वो नपुंसके " (२/४/५२) इत्यस्य विषयत्वादिति चेत्, न । अकिञ्चित्करोऽयं पूर्वपक्षः । वक्तव्यस्यापि सूत्राङ्गत्वाद् नास्ति विशेषः । यद् वा 'अपवादविषये स्वचिदुत्सर्गस्यापि समावेशः' (कात० प० ३७) इति न दोषः ।
ननु परेण "कृत्तद्धितसमासाश्च" (अ०१/२/४६) इति वाक्यव्यावर्तनार्थं समासग्रहणं क्रियते । तदभावादस्मन्मते वाक्यस्यापि लिङ्गसंज्ञा स्यादित्याह-अन्वर्थतेति । लिगिरिह एकदेशज्ञाने वर्तते, करणेऽल् । ननु वाक्यं हि त्रिविधम् - स्याद्यन्तचयं त्याद्यन्तचयमुभयं च । आद्यम्-वटुरयम्, भिक्षुरयम्, गौरयम् । द्वितीयं यथा-पचति, पठति, गच्छति । तृतीयं यथा-काष्ठैः स्थाल्यामोदनं पचतीति । तत्रोभयचयस्य सम्पूर्णस्पष्टार्थत्वान्नास्ति लिङ्गसंज्ञेति, इतरयोस्तु अविस्पष्टार्थत्वात् कथं लिङ्गसंज्ञा न स्यात्, सत्यम् । न हि निष्क्रियं निष्कारकं वाक्यमस्ति । यत्र च नामपदं न श्रूयते, तत्र क्रियापदाक्षिप्तं नामपदमनुसन्धेयम् । यत्र च क्रियापदं नास्ति तत्रास्ति-भवति इति पदं प्रयुज्यते । अतस्तयोरपि विस्पष्टार्थत्वान्न लिङ्गसंज्ञेति ।
ननु यथा एकदेशस्याविस्पष्टार्थहेतुत्वाल्लिङ्गसंज्ञा स्यात्, तथा काष्ठैः स्थाल्यामोदनं पचतीत्यादिवाक्यावयवस्याविस्पष्टार्थत्वात् कथं लिङ्गसंज्ञा न स्यात् ? नैवम्,