________________
५०२
कातन्त्रव्याकरणम
४१. पुनर्वद् दृन्कराद् भुवः दृन्कराम्यां परस्य भुवः पुनः शब्दादिव कार्यं भवति । तत् पुनरुविषये वत्वम् । दृन्निति नान्ते हिंसार्थेऽव्यये । भुवः क्विप् । दृन्भ्वम्, दृन्भ्वः । करध्वम्, करभ्वः । विकृतादपि - कारभ्वौ, कारभ्व इति चेष्यते । दन्भेरुप्रत्यये दृम्भूनिपात्यते इति भाष्ये। तन्त्रान्तरे उणादौ चोक्तम् - तत्याधात्ववयवत्वादम्शसोर्वत्वाभाव इति लक्ष्यते ।। ४१ ।
४२. क्विप् रामासस्थस्यैव धातोरेकस्वरस्य य्यौ धातो? य्वौ विहितौ तावेकस्वरस्य क्विप्समासस्थस्यैव भवतः। प्रण्यौ, ग्रामण्यौ । प्रस्वौ, अन्तस्वौ । च्चिडाजूर्याधुपसर्गोपपदानामेव स्गद्युत्पत्तेः प्राक् विपा समासः । नियमः किम् ? ईषद्भियः, कुधियः, अभियः, नानाधियः । पापाद् भीः, पापभिया । 'वृश्चिकभिया पलायमानस्य' इति भाष्ये। धर्मेण धीः, धर्मधिया । दात्रेण लूः, दात्रलुवा । वात्तिकेऽप्युक्तम् – “गतिकारकोपपदाभ्यामन्यपूर्वस्य क्यिबन्तस्य नेष्यते" इति गतिरिति च्चिडाजूर्याधुपसर्गाणामिह ग्रहणम् । संग्रहकारोऽप्याह – गतिकारकयोः पूर्वत्वे क्विब्-विधावपूर्वत्वेन भवतीति ।चान्द्रे तु कारकासंख्याभ्यामविशेषेणेष्यते ।।४२।
४३. परस्यादद्रीचो वा मो दोश्च स्यादौ परतोऽदद्रीचः परस्य दस्य युगपदुभयोश्च दकारयोर्मकारो भवति वा । अदमुयङ्, अमुमुयङ् । अदव्यङ्, अमुव्यङ् इति बहूनामिष्टमपि न मतं नः । परस्यामत्वे पूर्वस्य मत्वमिति भाष्येऽपि दूषितम् ।।४३।
४४. सभोरिदमन्चादेशे सकारभकारादौ स्यादावन्वादेशे इदमद् भवति, सागर्थोऽयमारम्भः । इमकस्मै गां ददाति, अथो अस्मै कम्बलं देहि । इमकस्माद् भीतोऽसि अथो अस्माच्छन्दोऽधीष्व | इमकस्य श्वेतास्तरङ्गाः । अथो अस्य पीता गावः । इमकस्मिन्नुच्चाः प्रासादाः, अथो अस्मिन्नीचाः पन्थानः । इमकाभ्यां छन्दोऽधीतम्, अथो आभ्यां निरुक्तमधीतम् | सभोरिति किम् ? इमकान् शालीन् लुनीहि । अथो इमकान् विक्रीणीष्व | कथमिमको ब्राह्मणौ । अथो इमकाभ्यां छन्दोऽध्येष्यते । यत्र कर्मादिकतया किञ्चित् प्रतिपाद्य पुनरनूद्यते सोऽत्रान्वादेशः ।।४४ |