________________
५०३
परिशिष्टम् -१
४५. सो व्याने नामिभ्यो रः नामिभ्यः परस्य सस्य व्यञ्जने परे रो भवति । सुपीःषु, सुपीष्कल्पः, सुपीष्पाशः, सुपीः काम्यति, सुपीस्तरः, सुपीःपुत्रः । सुतूःषु, सुतूष्कल्पः, सुतूष्पाशः, सुतूःकाम्यति, सुतूस्तरः, सुतू.पुत्रः । तथा पिपठीःषु, पिपतीःषु | सजुषाशिषोस्तु मूर्धन्यस्यैव डत्वापवादो रेफः । कथं मित्रशीःषु रत्वं स्यात्, मतमेतद् भाष्ये इति ? सत्यम् । “सजुषाशिषो रः" (२/३/५१) इत्यत्राङा सपूर्वमुपलक्ष्यते । वाक्यकारस्तु आङ्येव शास्तेः क्विपःप्रमाणमित्याह, तदेवात्र न्याय्यम् । यत्तु ‘प्रियतिसरौ, प्रियतिसरः । प्रियचतसरौ, प्रियचतसरः' इत्यत्र रेफाप्रवृत्तिमुदाजहार वाक्यकारस्तत् “तौ र स्वरे" (२/३/२६) इति व्यवस्थितविभाषानुवृत्त्या संग्रहणीयम् ।।४५।
४६. सुपि रः षसोर्विसर्जनीयः सुपि षसोरेव रेफस्य विसर्जनीयो भवति । सजू.षु, आशीःषु, सुपी षु, सुतूःषु । नियमः किम् ? गीर्षु, धूर्षु, कटचिकीर्षु, द्रोणबुभूर्षु ।। ४६।
४७. वाऽदसो नौत्साकः सादुच्च साकोऽदसः सावौत्वं न भवति वा, निषेधसन्नियोगेन च सात् परस्य वर्णस्योत्वं भवति । असुकः पुमान्, असकौ वा । असुका स्त्री, असकौ वा । क्लीबेऽदकः कुलम् इत्येव स्यात् । असुकम् इत्येके । अमुकम् इत्याम्नायात् ।।४७।
४८. श्वेतवाहादेरन्तस्य डस् पदान्ते पदान्ते श्वेतवाहादेरन्तस्य डस् भवति । श्वेतवाहादिर्मन्त्रे श्वेतबहुक्थेत्यादिना निपातितो विनन्तो गणः । श्वेतवाह् - श्वेतवाः, श्वेतवोभ्याम्, श्लेतवःसु । उक्थशंस्उक्थशाः, उक्थशोभ्याम्, उक्थशःसु । पुरोडाश – पुरोडाः, पुरोडोभ्याम्, पुरोडःसु । अवयाज - अवयाः, अवयोभ्याम्, अवयाःसु । पदान्ते इति किम् ? श्वेतवाहौ, उक्थशंसौ । पुरोडाशौ, अवयाजौ ।। ४८।
४९. सौ दीर्घः डसोऽस्य सौ दीर्घो भवति । संबुद्ध्यर्थम् इदम् । हे श्वेतवाः, हे उक्थशाः, हे पुरोडाः, हे अवयाः । केचिद् उपदेशावस्थस्यैव दीर्घमिच्छन्ति, तैरसम्बुद्ध्यर्थमिदमाश्रयणीयम् ।।४९।