________________
५०१
परिशिष्टम् -१
३५. ईति स्यतो नलोपो वा स्यसंहितस्य शन्तुङ ईकारे प्रत्यये नलोपो भवति वा । करष्यिती, करिष्यन्ती कुले । यास्यती, यास्यन्ती स्त्री । स चिन्तयत्येव भियस्त्वदेष्यतीः । रिसंस्थती वारिरुहाद्विलोचने । विच्छेस्तुदादिपाठादायान्तरायेऽपि विच्छायती, विच्छायन्तीति पारायणिकाः। तुदादिपाठादायानित्यत्वे विच्छन्ती, विच्छती च स्यादित्यपरे । अत्र मते गां विच्छतीति न्यासादौ घटते ||३५|
३६. नाव्योरहणे अर्हणे अन्योर्लिङ्गस्य धातोश्च नलोपो न भवति । गुर्वञ्चा, देवव्यञ्चा । गुर्वङ्भ्याम्, देवव्यङ्भ्याम् । प्राङ्, देवव्यङ् कुलम् । द्विवचनं धातुपरिग्रहार्थम् । अध्यन्ते, अञ्चिताः पितरः । अर्हणे इति किम् ? प्राग्भ्याम्, प्राक्षु, उदक्तमम्भः कूपात् । इडप्यन्चेरहणे वक्ष्यते ।।३६।
३७. अस्य च अर्हणे अञ्चेरकारस्य लोपो न भवति । गुर्वञ्चा, देवव्यञ्चा । कथं गोच्चा ? अन्चाश्रयो लोपोऽनेन बाध्यते, न त्वेदोदाश्रयः । तिर्यगुदन्चोस्त्वनर्चायामेव वृत्तिरिति तिरश्च्युदीची अर्चायां न निषिध्येते । तदिहाप्रमाणम् । तिर्यञ्चोदञ्चेति प्रयोगस्यार्चायामाचार्यैरुदाहृतत्त्वात् ।।३७।
३८. षन्हन्धृतराज्ञामेवाणि एषामेवाण्यनोऽकारस्य लोपो भवति । वार्ष्णम्, वाघ्नम्, भ्रौणघ्नम्, धार्तराज्ञम् । अघुट्स्वरत्वादनो लोपे प्राप्ते नियमोऽयम् । इह मा भूत् – सामनो वैमनः । एवेति प्रत्ययनियमनिश्चयार्थम् ।।३८।
३९. तद्धितेऽह्नः तद्धितेऽह्न एवास्य लोपो भवति । पूर्वाह्नः, आह्निकम् । अह्न एवेति किम् ? यूनां भावो यौवनिका, तक्षण्यः ।। ३९ ।
४०. स्वायम्भुवम् एतदनन्तरं निपात्यते । स्वयम्भुव इदं स्वायम्भुवम् ।।४०।