________________
५००
कातन्त्रव्याकरणम्
३१. लुकि व्यञ्जनवत् ___ लुञ्चेः क्विप् चेति भावे क्विपि न्यब्वादित्वात् कत्वे लुक्शब्दः पुंलिङ्गः, लुकि सति व्यञ्जनवत् कार्यं भवति । तिष्ठत्युपधु, उपधु आगतः । सप्तम्याः पञ्चम्याश्चात्र लुकि दिव उत् । उपगोमदास्ते, उपगोमदागच्छति । प्राक्, प्रत्यक्। एष्वनुषङ्गलोपः । उपपुम् । अन्शब्दलोपः। उपपथि, उपमथि। नस्य लोपः । उपचतुः, उपानडुत् । वाशब्दस्योत्वम् ।
अनवरगस्य पुंसोऽनः पन्थिमन्थ्योश्च नस्य लुक् ।
चतुरोऽनडुहश्चोत्वं लुक्येवं तु विधीयते ॥ सामान्यातिदेशे विशेषस्यानतिदेशात् - उपरि, उपेदम् । राय आत्वम् इदमोऽत्वं च न स्यात् ।।३१।
३२. उवणे दिवः दिवो वकारस्योवर्णे परतो व्यञ्जनवत् कार्यं भवति । द्यून्नतिः, घूर्ध्वम्, उद्यद्यूद्यानवाप्याम् इति च । उवणे इति किम् ? दिवाश्रयो दिवीश्वरः । येऽपि दिवर्थे द्युप्रकृत्यन्तरमिच्छन्ति तैरपि दिवोऽनिष्टरूपव्यपोहार्थं विधिरयम् आश्रयणीयः ।।३२ ।
३३. अहो यिन्नाय्योः __यिन्नाय्योः परयोरहो व्यञ्जनवत् कार्यं भवति ।अहठति, अहर्यते । नलोपश्चेति नियमान्निवृत्तो व्यञ्जनविधिः, यथा - दिव्यति ।।३३ ।
३४. वोऽनवर्णादौत्यूतु अनवर्णात् परस्य वाहेर्वाशब्दस्यौति प्रसजति सत्यूद् भवति । भाषायामपि वहेर्विण्णिति मतं कात्यायनस्य । वारुहः, वारुहा । अवर्णादेव वहेर्विण्णिति बहूनामिष्टमपि न मतं नः । वार्वाडिति च दृश्यते । भाष्यस्थित्या तु अनवर्णोपपदस्याघुट्यप्रयोग एव लक्ष्यते । अनवर्णोपपदस्य वहेर्विण न दृश्यते चेद् ऊहेः प्रयोग एव समर्थयितव्यः ||३४।