________________
४९९
परिशिष्टम् -१ विसर्गान्तो दकारादिरादेशो व्यानाश्रितः। उद्विधिश्च दिवो वस्य तद्धिते ये निषिध्यते ॥२५॥
२६. तद्वत् तसोर्मन्त्वर्थे तकारसकारयोर्मन्त्वर्थे प्रत्यये तद्धितयकारवत् कार्यं भवति । गरुत्वान्, मरुत्वान्, विद्युत्वान् । इहापदत्वमतिदिश्यते - पयस्वान्, तेजस्वान्, रजस्वल इह विसर्गाभावः । विदुष्मतीति संसत्, पेचुष्मान् ग्रामः । इह वस्योत्वमपदान्तत्वे मूर्धन्यश्च । तयोरिति किम् ? स्रग्वी, समिद्वान । मन्त्वर्थ इति किम् ? मरुद्वत्, सर्पिर्वत् ।।२६।
२७. राजन्वानहे अर्हे प्रशंसायां वन्तौ राजन्वान् भवति । राजन्वान् देशः । राजन्वती पूः । अहें इति किम् ? राजवन्तस्त्रिगर्ताः । राजवती पल्ली ।।२७।
२८. चर्मण्वत्याख्यायाम् संज्ञायां चर्मण्वती भवति । चर्मण्वती नाम नदी कदली च । आख्यायामिति किम् ? चर्मवती शाला ||२८।।
२९. वत्यङ्गिरोनभोमनुषाम् एषां वतिप्रत्यये तद्धितयकारवत् कार्यं भवति । अङ्गिरा इव अङ्गिरस्वत्, नभस्वत्, मनुष्वत् । वतीति किम् ? नभोरूपम् । एषामिति किम् ? यशोवत्, सर्पिर्वत् ।।२९।
___३०. वृष्णो वस्वश्वयोः वस्वश्वयोः परयोवृषन्शब्दस्य तद्धितयकारवत् कार्यम्भवति । वृषण्वसुः, वृषणश्वः । नलोपाभावो णत्वं च स्यात् “यणाशिषोः" (३/४/७४;६/१३) इति ज्ञापकाद् उत्तरपदे ङणनानां द्वित्वमनित्यम् । भाष्ये तूत्तरपदे णनानां द्वित्वाभाव एव समर्थितः । तदा "सर्वतोऽक्तिन्नर्थात्" इति वात्तिक । “यिन्नायी स्वरवत्" इत्यत्र नकारस्य, (द्वितीय) पाठश्चिन्त्यः ।।३०।