________________
४९८
कातन्त्रव्याकरणम्
इत्यन्, हे प्रियचतुः कुलेति ह्रस्वश्च स्यात् । हे कर्तः कुलेत्यर् च न स्यात्, अघुट्त्वादात्वमापे कादीनां सिलोपनिरपेक्षत्वात्, तदिह तैः प्रतिविधातव्यम् इति ।।२१।
२२. शौ वा बहू| जः प्राङ् नुः बहू| जकारात् प्राक शौ परतो नुरागमो भवति वा । बहूर्जि, बहूजि कुलानि । शाचिति किम् ? बहूर्थीि राजन्यके । बहुग्रहणं किम् ? अत्यूर्जि, निरूर्जि कुलानि । ये चन्तस्थानुनासिकोपधस्यापि धुडन्तस्य शौ परतो नुम् इच्छन्ति, तेषामपि सुवल्लीत्यादिवदन्त्यस्वरात् प्राप्तस्य निषेधे विकल्पोऽयम् । तन्त्रान्तरेऽपि जकारात् प्रागेवात्र नुरागमः । तदुक्तं बहुतॊऽन्त्यात् पूर्वं नुमिच्छन्ति । अन्यत्र मस्जो जात् पूर्वम् इत्यधिकारे विधिरयम् । वात्तिके तु बहूर्जि प्रतिषेध एव । पृषन्त् - बृहन्त् - महन्त् - जगन्तः सानुषङ्गा एव प्रकृतयः । सजन् पृषन् वायुः ! स्थूलपृषती वृष्टिः । जितजगन् जगन् वाति । वायौ पुंस्ययम् । जगती, प्रियजगतीति अनन्तत्वादी । क्विबन्तस्य तु पुंस्यपि जगदित्येव स्मार्तः ।।२२।
२३. शुन्योपशुनयोरुद्वनस्तद्धिते 'शुन्य - उपशुन'इत्यत्रैव तद्धिते वनन्तस्योद् भवति ।शुने हितं शुन्यम्, बाहुलको दीर्घः- शून्यम् । शुनः समीपम् पशुनम् । अतः साहचर्याद् यतोग्रहणमिह न स्यात् । शुनि साधु शुन्यम् । नियमः किम् ? शौवनम् । यौवनम् । वन इति किम् ? वैदुष्यम् । तद्धित इति किम् ? शुनी ।।२३।
२४. ऋतोर्यि ऋकारस्य तद्धिते ये परे रेफो भवति । कत्र्यम्, पित्र्यम् ।।२४।
२५. तत्राघुट्स्वरवदेव तत्र तद्धिते यकारेऽघुट्स्वरवदेव कार्यं भवति । वैदुष्यम्, प्राष्ठौह्यम्, प्रातीच्यम्, तैरश्च्यम्, औदीच्यम्, वैयाघ्रपद्यम् । वन्सेरुत्, वाहेरौदन्वेरलोपः पूर्वदीर्घता । तिरश्च्युदीची पादः पत् तद्धिते येऽतिदिश्यते । नियमः किम् ? व्यञ्जनकार्यं मा भूत् । अनडुह्यम्, मधुलिह्यम्, गोदुह्यम्, गिर्यम्, धुर्यम्, पयस्यम्, दिव्यम् ।