SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ इत्यभ्युपगतम् । न तन्मतमाद्यानां वृत्तिकृताम्, न च चान्द्रस्य । स्मार्ताश्च भाषायामपि प्रयुक्तवन्तः । मनश्चरणयोस्तु हृत्पच्छब्दौ प्रकृत्यन्तरे धुट्यपि स्तः । शस्त्रभृतिष्वित्याचार्यः । शसादाविति चन्द्रश्च पठति, तयोर्नपुंसकादीकारे न भवितव्यमिति मतम् || १६ | १७. मातृकस्य ऋदादेरत् पुत्रस्तुतौ संबुद्धौ ४९७ संबुद्धौ परतो मातृकस्य ऋदादेरवयवस्य पुत्रस्तुतावद् भवति । हे गार्गीमात ! हे वात्सीमात ! पुत्रेति किम् ? हे गार्गीमातृके कन्ये । स्तुताविति किम् ? अरे दासीमातृक ! संबुद्धाविति किम् ? गार्गीमातृकः || १७ | १८. वोशनसो नः उशनसोऽन्तस्य नकारो भवति वा सम्बुद्धौ । हे उशनन् ! हे उशनः ।। १८ । १९. नलोपो नपुंसकस्य च नपुंसकस्य उशनसश्च संबुद्धौ नस्य लोपो भवति वा । हे साम, हे सामन् । हे दाम, हे दामन् । हे उशन, हे उशनन् ।। १९ । २०. गुणोऽपथ्यादेः अपथ्यादेर्नपुंसकस्य नाम्यन्तस्य संबुद्धौ गुणो वा भवति । हे वारि ! हे वारे ! हे पो ! हे त्र । हे कर्तः, हे कर्तृ । हे शक, हे शकॡ । कृतोऽप्यल् इति माध्यन्दिनीयाः । भाष्ये तु त्रपुशब्दस्यैव गुणोऽयमिष्यते । अपथ्यादेरिति किम् ? हे सुपथि, हे सुमथि, हे अनृभुक्षि कुलेति । हे सुपथिन्, हे सुमथिन्, हे अनृभुक्षिन् इति चेच्छन्ति । आचारे पथ्यादेर्नुश्चेति वक्ष्यति पथेनति, मथेनति, ऋभुक्षेणति । यणि च पथिन्यते, मथिन्यते, ऋभुक्षिण्यते ॥ २० ॥ २१. स्त्रीत्रिचतुरन्तस्य स्यमोस्तिसृ चतसृ ये स्त्रियां त्रिचतुरी तदन्तस्य नपुंसकस्य स्यमोस्तिसृ - चतसृ इत्येतौ भवतो वा । प्रियतिसृ, प्रियचतसृ, प्रियत्रि, प्रियचतुः कुलम् । केचिद् इह विकल्पं नेच्छन्ति । तदुक्तं भाष्यकृता - " लुक्यङ्गकार्य निषिध्यते, स्यमोर्लुक्यनङ्गकार्यत्वात् तिसृ चतसृ न नित्यम्" इति । नाम्यन्तचतुरां वा तदुक्तम् इत्युक्तौ 'सुपथि कुलम्' इत्यात्वम्, ‘सुसखि कुलम्'
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy