________________
परिशिष्टम् -१
४९५ त्ववयवस्त्रीत्वादिति । पुंसीति किम् ? सुमत्यै, सुमतये । सुधेन्वे, सुधेनवे । भूरिश्रियै, भूरिश्रिये । बभ्रुभ्रुवै, बभ्रुध्रुवे स्त्रियै । भूरिश्रीणाम्, भूरिश्रियाम् । बभ्रुभ्रूणाम्, बभ्रुभ्रुवां स्त्रीणामिति ।
भाष्येऽप्युक्तम् – समासेऽस्त्रीवचन एव आम्ङवदाश्रया विभाषेति । निषेधोऽयमाम्ङवदाश्रयस्य विकल्पस्यैव । नित्यनदीत्वस्य तू नदीवभावादेव निवृत्तिः सिद्धा । हे भूरिश्रीः, हे बभ्रुभ्रूः । जाता सुभ्र ! मनोरमे ! तव दशा' इति रुद्रटस्य तु सामान्योपक्रमेण स्यात् । यथा “विहर मया सह भीरु ! काननानि" (वा० रा०५/२०/३६) इति वाल्मीकेः। नहि भीरोरुङस्मार्त इति सामान्योपक्रमश्चायम् । "शक्यं श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्" (पस्पशा०, पृ० ४६) इति समाधये भाष्येऽपीष्ट एव ।। ११ ।
१२. एदोद्भ्यां लुक् संबुद्धेः ___ एदोद्भ्यां परस्य संबुद्धेर्तुंग भवति । सेवतेविचि हे से, देवतेश्च - हे दे। भाष्यचान्द्रयोस्तु वान्ताद् धातोर्विजप्रमाणम् । कथमन्यथा य्वोर्लोपे वग्रहणं प्रत्याख्यातम् । भाष्येऽप्युक्तम् ‘वकारस्योदाहरणं नास्ति' इति । चन्द्रगोमिना “यो वलि लोपः" (चा० व्या० ५/१/६३) इति प्रणीतम् । ईङ: क्विप् चेत् हे उपे, महान् हे: कामोऽस्य हे महे | वेङः क्विपि ऊः महान् ऊः हे महो । उः शम्भुः, स्मृतः उर्येन हे स्मृतो | इह
औत्वं नास्ति । गोरुपलक्षणं हि द्योरेव औणादिकसादृश्यात् । उक्तं हि भाष्ये"द्योशब्दादपि सुड् वृद्धिनिमित्तमिष्यते । गोद्यवोरिति च संग्रहकारः पठति । अम्शसोरात्वे त्वोदन्तमात्रोपलक्षणमाश्रयणीयम् । महाँ, महाः । स्मृताँ, स्मृताः पश्य । गोश्चेति गुणोपलक्षणत्वादेदोद्भ्यां ङसिङसोरलोपश्च स्यात् – महेः, महेः । स्मृतोः, स्मृतोः । तृतः संबुद्धिजसोरलिष्यते हे पठितशकल्, हे पठितशकल एते ।। १२ ।
१३. क्रुशस्तुनस्तृस्त्र्यसंबुद्धिघुटोः कुशेः परस्य पुनः स्त्रियामसंबुद्धिघुटि च त्रादेशो भवति । क्रोष्ट्री, क्रोष्टूनतिक्रान्ता अतिक्रोष्ट्री | पञ्चभिः क्रोष्ट्रीभिः क्रीतं पञ्चक्रोष्ट्र । लुगणादिलुकीति स्त्रीप्रत्ययस्य लुक् । घुटि च क्रोष्टा, क्रोष्टारौ, क्रोष्टारः । बहुक्रोष्टृणि वनानि । को न स्यात् - असिद्धत्वात् । असंबुद्धाविति किम् ? हे क्रोष्टो ! तृचा सिद्धं चेत् स्त्रियामसंबुद्धिघुटि च पुनः श्रुतिर्दुर्निवारा ।। १३।