________________
कातन्त्रव्याकरणम्
८. सुभोः पदम्
सुपि भादौ स्यादौ च लिङ्गं पदसंज्ञं भवति । सुकन्सु, सुकन्भ्याम् | प्रशान्सु, प्रशान्भ्याम् । नानुस्वारः । पुंभ्याम्, पुम्भ्याम् । पञ्चमो वा स्यात् । मूर्धन्यस्तु पदादप्यपदादेः स्यादेव | गिरिषु, वाक्षु । कथं सर्पिष्षु ? षान्तरवचनात् सुपि षोऽनुमीयते ॥ ८ ॥ ९. न यस्वरे प्रत्यये
४९४
यादौ स्वरादौ च प्रत्यये विभक्त्यन्तं पदसंज्ञं न भवति । समिध्यम्, तडित्यम्, कर्मण्यम्, हविष्यम् । न प्रथमतृतीयौ णत्वषत्वे च स्याताम् । स्वरे च वैक्रुधम्, ताडितम्, पार्वणम्, वैदुषम् । 'त्वचयति, क्षुधयति' इत्यपि भवदीयमिति वक्ष्यते । यस्वर इति किम् ? सर्पिष्यात्, मृन्मयम् । पुंवत् षो न स्यात्, पञ्चमोऽनुस्वारश्च स्यादेव || ९ | १०. समानोऽग्निवदम्शसोः
समानसंज्ञकोऽम्शसोः परयोरग्निवद् भवति । यत्राग्निविधिरसिद्धो यत्र चापवादाप्रसङ्गस्तत्रायं विधिः । वातप्रमीमिमम्, वातप्रमीन् । ईरयमौणादिकः । स्त्रियां वातप्रमीम्, वातप्रमीरिति नदीत्वात् । यथा हे वातप्रमि, वातप्रम्यै, वातप्रमीणामिति । कर्कन्धूमिमम्, कर्कन्धूनिति चेच्छन्ति । ऊरयमौणादिकः । धात्वनुकरणस्य च चितीम्पठति, गुपूम्पठति । वर्णग्रहणे च - ईम्पठति, ऊम्पठति, यत्रोपसर्जनं नदी तत्रापि विधिरयमिति मतम् । सुप्रेयसीन्, अतितन्त्रीन्, अतिवधून् । धात्ववयवस्य तु नद्या अनद्याश्चाम्शसोर्धातुविधिरेव । यवल्वम्, यवल्वः । पुनर्ध्वम्, पुनर्ध्वः (पश्य ) । न हि तन्त्रान्तरे धात्ववयवस्य नदीत्वेऽम्शसोर्विधिभेदोऽस्ति । पुनर्ध्वम् इत्युदाहृतं च पारायणतन्त्रप्रदीपादौ । वर्षाभूम्, वर्षाभूरिति सिद्धये युक्तयस्त्वाम्नायविरोधिन्यो नोपकारिण्यः । ऋद्ॡवर्णान्ताश्चास्य विषयाः । स्तुं पठ, स्तृन् पठ । गम्छ्रं पठ, गम्लुन् पठ ।। १० । ११. न समासे पुंसि हस्वेयुव नदी
पुंलिङ्गे समासे उपसर्जनं ह्रस्वेयुवस्थानं नदी न भवति । सुमतये, सुधेनवे छात्राय । भूरिश्रियाम्, बभ्रुभ्रुवां यूनाम् । भूरिश्रिये, बभ्रुभ्रुवे यूने । समुदाये मत्यादीनां स्त्र्याख्यत्वात् प्रसङ्गः । यथा - अतितन्त्र्यै, अतिवध्यै यूने । उक्तं हि भाष्ये - सिद्धं